SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ न्तरम् सूत्रं ८] स्वोपज्ञभाष्य टीकालङ्कृतम् शरपातस्थानादपस्ते सारङ्गे चेतसोऽशुद्धत्वादकृतेऽपि प्राणापहारे द्रव्यतोऽअध्वस्तेष्वपि प्राणिषु भावहिंसा भवत्येव हिंसा, हिंसारूपेण परिणतत्वात् काण्डक्षेपिणः, स्वकृतदृढायुष्यकर्मशेषाद " पसृतो मृगः पुरुषाकाराच्च, चेतस्तु हन्तुरतिक्लिष्टमेवातो व्यापादकम् । तथा तस्यानवदातभावस्य जिघांसोरुत्क्रान्तजन्तुप्राणकलापस्य भावतो द्रव्यतश्च हिंसेत्येवमुदिते विकल्पत्रये प्रमत्तयोगत्वं, द्वितीयतृतीयविकल्पयोः, अतस्तयोरेव हिंसकत्वं, न प्रथमस्येति । अपरे तु प्रमादमष्टविधं वर्णयन्ति "अज्ञानं संशयश्चैव, मिथ्याज्ञानं तथैव च।। रागो द्वेषोऽनवस्थानं, स्मृतेधर्मेष्वनादरः॥१॥"-अनु० - अपरे तु ब्रुवते—“अप्रयत्नासमितः प्रमत्तः।" प्रयत्नो द्विविधः-जीवाजीवपदार्थ - परिज्ञानमीर्यादिसमितिपञ्चकं चेति । एतद्विरहितः प्रमत्त उच्यते । प्रमत्तस्य लक्षणा- सूत्रकारेण प्रमत्तयोगादित्येतदभिदधता सर्वमेवैतत् प्रमत्तलक्षणं सम ग्राहीति । स्यादेतत् , अस्तु तृतीयविकल्पे प्राणातिपातः सम्पूर्णलक्षणत्वात् । मार्यमाणः प्राणी यदि भवति, हन्तुश्च प्राणीति यदि विज्ञानमुपजातं, हन्मीति च यदि वधकचित्तोत्पादः, यदि च व्यापादितः स्यात् , सर्वे चैतदुपपन्नं तृतीये । द्वितीयविकल्पे तु नास्त्येतत् समस्तम् , अतः कथं तत्र हिंसकत्वम् । एतदेव च प्राणातिपातलक्षणम् । अपरं स्पष्टतरं प्रपश्चितम् "प्राणातिपातः सश्चिन्त्य, परस्याप्रान्तमारणं " इति ॥ द्विविधं मारणं सश्चिन्त्यासश्चिन्त्य च । सञ्चिन्त्यापि द्विविधं भ्रान्तस्याभ्रान्तस्य च । अभ्रान्तस्यापि द्विविधं आत्मनः परस्य चेति । अतो विशेषणत्रयमुपादीयते । एतदुक्तं भवतियदि मारयिष्याम्येनमिति संज्ञाय परं मारयति तमेव मारयति नान्यं भ्रमित्वा । इयता प्राणातिपातो भवति । यस्तर्हि संशयितो मारयति प्राणिनं प्राणी स चान्यो वेति, सोऽप्यवश्यमेव निश्चलं लब्ध्वा तत्र प्रहरति योऽस्तु सोऽस्त्विति कृतमेवानेन त्यागचित्तं न भवतीति । ततश्च असश्चिन्त्य यो वधः क्रियते भ्रान्तेन वा आत्मनो वा स न प्राणातिपातः । प्राणश्च वायुः, कायचित्तसंमिश्रितः प्रवर्तते चित्तप्रतिबद्धवृत्तित्वात् तममारणे बौद्धीयः तिपातयति-विनाशयति जातस्य स्वरससनिरोधादनागतस्योत्पत्तिं प्रतिपूर्वपक्षः बध्नातीति । जीवितेन्द्रियं वा प्राणाः । कायस्यैव च सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते, न त्वन्यस्यात्मनोऽभावात् । न ह्यात्मनः किञ्चित् प्रतिपादक प्रमाणमस्तीति । अन्यस्त्वाह १ 'तथाऽन्यस्या-' इति ङ-पाठः। २. अपरेण ' इति -पाठः। ३ 'यदा' इति हु-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy