________________
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ७ णाम विशिनष्टि-योगी-व्यापारश्चेष्टा, 'प्रमत्तस्यात्मनश्चेष्टेत्यर्थः । प्रमत्तयोगादिति पञ्चमी तृतीयार्थे द्रष्टव्या। प्रमत्तव्यापारेण यत प्राणव्यपरोपणं । अथवा पञ्चमीविधाने "ल्यब्लोपे कर्मण्युपसंख्यानं " प्रासादमारुह्य प्रेक्षते प्रासादात् प्रेक्षत इति । एवं प्रमत्तयोगं प्राप्य प्राणव्य
परोपणं कुर्वन् आत्मा हिंसां निवर्तयति । प्रमत्तयोगात् प्राणव्यपरोपणमा पञ्चमीविभ- - तेर्विचारः म
स्मैव हिंसां निवर्तत इत्यर्थः । अथवा अधिकरणे चोपसंख्यानम् । आसने
" उपविश्य प्रेक्षते आसनात् प्रेक्षते, एवं प्रमत्तं प्रमादः तत्र प्रमादे स्थित्वा प्राणव्यपरोपणमाचरन्नात्मा हिंसा निवर्तयतीति पञ्चमी प्रयुज्यते 'गत्यर्थाकर्मक०' (पा०अ० ३,पा०४,सू०७२) इत्यत्र 'भावकर्मणोः' (पा० अ० १, पा० ३, सू० १३) इत्यनुवर्तते तत्र भावे क्तप्रत्ययः। प्रमत्तं प्रमादस्तेन च प्रमादेन योगः सम्बन्धस्तदाकारपरिणतिरात्मनः । ततश्च गुणहेतावस्त्रीलिङ्गे विभाषया पश्चमीविभक्तिर्भवति जाड्याद् बद्ध इति यथा, एवं प्रमत्तयोगात्प्रमादसम्बन्धात् प्राणव्यपरोपणमिति । प्राणाः पञ्चेन्द्रियाणि आयुष्कर्म कायवाङ्मनः प्राणापानौ चेति दशधा द्रव्यपरिणामलक्षणाः पृथिव्यादिकायेषु यथासम्भवमवस्थितास्तेषां व्यपरोपणम्-अपनयनम्-आत्मनः पृथक्करणम् । यया वा आत्मपरिणतिक्रियया तव्यपरोपणं निष्पद्यते सा क्रिया कर्तृसमवायिनी हिंसेत्युच्यते। एनमेव च सूत्रार्थ भाष्येण स्पष्टयन्नाह
भा०--प्रमत्तो यः कायवाङ्मनोयोगैः प्राणव्यपरोपणं करोति सा हिंसा । हिंसा मारणं प्राणातिपातः प्राणवधः देहान्तरसंक्रामणं प्राणव्यपरोपणमित्यनर्थान्तरम् ॥ ८॥
टी०-प्रमत्तो य इत्यादिना । प्रमत्त इति प्रमत्त एव हिंसको नाप्रमत्त इति प्रतिपादयति । प्रमत्तो ह्याप्तप्रणीतागमनिरपेक्षो दूरोत्सारितपारमर्षसूत्रोद्देशः स्वच्छन्दप्रभावितकायादिवृत्तिरज्ञानबहुलः प्राणिप्राणापहारमवश्यंतया करोति । द्रव्यभावभेदद्वयानुपातिनी च हिंसा । तत्र कदाचिद् द्रव्यतः प्राणातिपातः न भावतः, स्वपरिणामनिमित्ते च हिंसाहिंसे, परमार्थतः परिणामो मलीमसोऽवदातश्च । परस्तु कञ्चिनिमित्तमाश्रित्य कारणीभवति हिंसायाः। स च द्रव्यतो व्यापन्नो न व्यापन्न इति नातीवोपयोगिनी चिन्ता । तत्र यदा
... ज्ञानवानभ्युपेतजीवस्वतत्त्वः श्राद्धः कर्मक्षपणायैव चरणसम्पदा प्रवृत्तः काश्चि
याता द्धा क्रियामधितिष्ठन् प्रवचनमातृभिरनुगृहीतः पादन्यासमार्गावलोकित. पिपीलिकादिसत्त्वः समुत्क्षिप्तं चरणमाक्षेप्तुमसमर्थः पिपीलिकादेरुपरि पादं न्यस्यति उत्क्रान्तप्राणश्च प्राणी भवति तदास्य द्रव्यप्राणव्यपरोपणमात्रादत्यन्तशुद्धाशयस्य वाक्यपरिजिहीर्षाविमलचेतसो नास्ति हिंसकत्वम् । कदाचिद् भावतः प्राणातिपातः, न द्रव्यतः । कषायादिप्रमादवशवर्तिनः खलु मृगयोराकृष्टकठिनकोदण्डस्य शरगोचरवर्तिनमुद्दिश्यैणकं विसर्जितशिलीमुखस्य
१'योब्लोपे कर्मण्यधिकरणे च ' इति कात्यायनवार्तिके (१४७४-१४७५)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org