________________
सूत्रं ८]
. स्त्रोपज्ञभाष्य-टीकालङ्कृतम् भा०-वैराग्यं नाम शरीरभोगसंसारनिर्वेदोपशान्तस्य बाह्याभ्यन्तरेषूपधिष्वनभिष्वङ्ग इति ॥७॥
___टी-वैराग्यं नामेत्यादि । विरागभावो वैराग्यम् । नामेत्यलङ्कारार्थम् । शरीरस्य भोगोऽभ्यञ्जनोद्वर्तनस्नानाङ्गरागधूपपुष्पमाल्यालङ्कारविचित्रनिवसनेष्टाहारादिलक्षणः । संसारश्चातुर्गतिकस्ताभ्यां शरीरभोगसंसाराभ्यां निर्वेदो-निर्विण्णता शरीरभोगसंसारविषयवैमुख्यमुद्वेगस्तस्मानिर्वेदाल्लब्धोपशमस्य-प्रतनुकषायस्य बहिर्भवो बाह्यः वास्तुक्षेत्रादिदेशविधः पञ्चमवते वक्ष्यमाणो रागद्वेषादिराभ्यन्तरश्चतुर्दशभेदस्तत्रैव वक्ष्यते । तेषूपधि
वनभिष्वङ्गो मूर्छा लोभो गायं तदाकारः परिणाम आत्मनः । नाभिष्वङ्गः-अनभिष्वङ्गः निरपेक्षता तेषु गाय॑मिति ॥७॥
भा०-अत्राह-उक्तं भवता (अ०७, सू० १)-हिंसादिभ्यो विरतितमिति। तत्र का हिंसा नामति । अत्रोच्यते ।
टी०-अत्राहेत्यादिना सम्बन्धमाचष्टे । अनवधारितहिंसादिलक्षणस्य निवृत्तिव्रतमित्यभिहितं भवताऽध्यायादौ, तत्र नावगच्छामः किंलक्षणा हिंसादयो येभ्यो विरतिव्रतमित्यजानानस्य प्रश्नः-तत्र काहिंसा नामेति । नहि लक्ष्यमुपरतलक्षणव्यापारमभिधित्सितस्यार्थस्य जातुचिदामोदायेति । तत्र-तेषु पञ्चसु हिंसादिषु का हिंसा किंलक्षणेति हिंसैव तावत् पृच्छयते। तल्लक्षणवैपरीत्यात्त अहिंसा सुज्ञानैव । न च भिन्नजातीयानां पदार्थानां युगपल्लक्षणमभिधातुं शक्यम् । अतः क्रमेण निर्देशे सति हिंसामेव तावद् वाचकमुख्यो निरूपयितुमाह-अत्रोच्यत इति । अत्र-हिंसालक्षणप्रश्ने भण्यते तल्लक्षणम्
सूत्रम्-प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ॥ ७-८॥ टी०-प्रमाद्यतीति प्रमत्तः कषायविकथेन्द्रियनिद्रासवैनिमित्तभूतैः । तत्र कषायाः पोडशानन्तानुबन्धादिभेदास्तत्परिणत आत्मा प्रमत्तः । इन्द्रियाणि स्पर्शनादीनि तद्वारको रागद्वेषौ । समासादिततत्परिणतिरात्मा प्रमत्तः । स्पर्शनादिनिमित्तभेदात् कषाया एव प्रमादहेतुत्वेनोपन्यस्ताः। प्रमादश्चात्मनः परिणामः कषायादिनिमित्तः, दर्शनावरणकर्मोदयात् स्वापो निद्रा पञ्चप्रकारा तत्परिणामाच्च पीनहृत्पूरपित्तोदयाकुलितान्तःकरणःपुरुषवदन्धो मूढः करचरणविक्षेपशरीरपर्यवसानक्रियाः कुर्वन् प्रमत्तः (आसवो)मद्यं मधुवारशीधुमदिरादि तदभ्यवहारे सत्यागतमूर्छ इव विहलतामुपेतःप्रमत्तोऽभिधीयते। विकथा स्त्रीभक्तजनपदराजवृत्तान्तप्रतिबद्धा। रागद्वेषाविष्टचेताः स्यादिविकथापरिणतः प्रमत्तस्य योगः। कर्तरि षष्ठी। योगपरि
१' परितः ' इति पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org