________________
६२
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ७ कालान्तरेण शिरःपाण्याद्यवयवाभिव्यक्तिर्जनन्यभ्यवहृताहारनिस्यन्दप्रवाहपूरितरसहरणीकुल्यया परिप्रापिताशेषरसास्वादध्मायमानपोषः पुरीषमध्यासीनः पूर्णावयवः परिपाकवशान्मायोनिविवरनिःसृतः स्तन्यपीठिकाहारासेवनोपचीयमानरुधिरमांसकीकसपुरीषप्रस्रवणसंघातः पश्चादागन्तुकशल्यशलाकाग्रभिन्नः श्लेष्मादिधातुप्रकोपोद्भूतश्वयथुः गण्डादिसंस्पर्शाद् वा क्षरदसृग्रलवलसिकापूयपटलप्रायपरिणामः सर्वावस्थास्वशुचिरेव काय इत्येवं भावयेत् ॥ एवं च भावयतः संवेगो वैराग्यं च भवतीति संवेगवैराग्यस्वरूपकथनायाह-तत्र संवेगो नामेत्यादि । तत्रेति तयोः संवेगवैराग्ययोः संवेगस्तावदित्थंलक्षणः । नामशब्दो वाक्यालङ्कारार्थम् । भीरु-भीतिशीलः संसारो-नारकतियङ्मनुष्यामरभवप्रपश्चः सेकलदुःखमूलः संसारादू भीरुः संसारभीरुस्तद्भावः संसारभीरुत्वम् । उद्विजते हि प्रेक्षापूर्वकारी दुःखात् । न जातुचित् प्रवणो भवति । आरम्भाः सूनास्थानानि प्राण्युपघातकराणि व्यापादनसङ्कल्पपरितापजननप्राणापहारलक्षणाः सर्व एवारम्भाः, चेतनाचेतनवस्तुस्पर्शिनो मूर्छाविशेषाः परिग्रहाः । तेष्वारम्भपरिग्रहेषु दोषदर्शनादरतिः ऐहिकामुष्मिकप्रत्यवायदोषाः तदर्शनात् तदुपलब्धेदुःखमुद्वेगोप्रीतिः-अरतिः तद्वतश्च धर्मे बहुमानो धार्मिकेषु च धर्मः क्षमादिदशलक्षणस्तदासे विनो धार्मिकास्तेषु बहुमानो धर्मे च । चकारः समुच्चयार्थः। .. बहुमानशब्दार्थनिरूपणायाह- भा०-धर्मश्रवणे धार्मिकदर्शने च मनःप्रसाद उत्तरोत्तरगुणाप्रतिपत्तौ च श्रद्धेति ॥
टी०-धर्मश्रवण इत्यादि। प्राक् तावद्धर्मजिज्ञासा ततस्तदभिज्ञप्रच्छेनं पश्चाच्छ्वणम्-आदरेणाकर्णनं ततः सरणानुष्ठाने एष खलु धर्मविषयो बहुमानः। आदरः-चित्तप्रसादः । धार्मिकदर्शने चेति । धार्मिकाः-सम्यक्त्वज्ञानक्रियानुष्ठायिनः साधवोऽगारिणश्च तद्दर्शने च बहुमानः-चित्तप्रमोदपूर्वकोऽभ्युत्थानवन्दनासनदानभक्तपानवस्त्रपात्रोपकरणप्रदानानुव्रजनलक्षणो भक्तिविशेषश्चेतःप्रसादः संवेगस्याभिव्यञ्जकः, उत्तरोत्तरगुणप्रतिपत्तौ च श्रद्धेति । संवेगमूलगुणास्तावत् सम्यक्त्वादयोऽजगारागारिणोरवश्यंतया सन्ति तेषु सत्सुमौलेषु गुणेषत्तरोत्तरा ये गुणाः प्रकारवत्तया क्रमेणास्थिताः पिण्डोपधिशय्याविशुद्धिलक्षणाः समितिभावनातपःप्रतिमाभिग्रहादयस्तेषूत्तरोत्तरेषु स्वशक्त्यपेक्षा प्रतिपत्तिरभ्युपगमोऽनुष्ठानं तद्विषया श्रद्धाभिलाष इच्छेत्यनर्थान्तरम् । एवं तावत्संवेगः॥
१ पीठका' इति ग-पाठः । २ — साकल्यदुःख ' इति ग-पाठः । ३ 'प्रश्न' इति ग-पाठः । ४ ' वच्छिन्नाः' इति ङ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org