________________
सूत्र ७]
. स्वोपनभाष्य-टीकालङ्कृतम् मग्रहणेन प्रादुर्भावादयो विशेष्यन्ते । अनादिना परिणामेन विशिष्टो यः प्रादुर्भावः आत्मलाभो वस्तुनस्तथा सन्निवेशः, आदिमत्परिणामविशिष्टश्च प्रादुर्भावः पर्यायान्तरोत्पाद इति । तिरोभावस्तु सन्तानरूपेणावस्थितो वैससिको विनाश एवादिलक्षणः, स्थितिधौव्यमनादिपरिणामः । अन्यता सर्वद्रव्याणां परस्परं भेदपरिणामोऽनादिः, अनुग्रहः परस्परोपकारादिलक्षणो जीवानां, विनाशस्तु प्रायोगिक आदिमान् परिणामः । एवमेष जगस्वभावः पुनः पुनरालोच्यमानः संवेगाय सम्पद्यते । कथं पुनर्जगत्स्वभावचिन्ता संवेगानुगुणेति ?। उच्यते-जगत्स्वभावं चेतनाचेतनत्वेन विभज्य चेतनानां सदसचेष्टितफलं विभज्यते, तत्सुपरिनिश्चितमतिरहिंसादिचेष्टितानामिहपरलोकोत्पन्नैकान्तहितानुष्ठायिनां तत्फलावाप्तिं च मनुजसुरनारकेषु तिर्यक्षु च यथावद् विचिन्त्य सारासारतया मुक्तिमार्गप्रवणो भवति । अज्ञानहिंसादिचेष्टितानां च संसारानन्तफलदोषदेर्शनात् तदुच्छेदार्थमहर्निशं संवेगमेव भावयति । अचेतनानामपि नित्यानित्यमूर्तामूर्तस्पर्शगन्धरूपशब्दसंस्थानादिपरिणामशुभाशुभकल्पनानामनायसन्तानैकस्वाभाव्यमनुपश्यन्नरक्तमूढद्विष्टो जगदन्यायन्यायचेष्टितानि भीतिमन्त्यभयभू. तानि च भावयन् संवेगभार भवतीति ।। कायस्वभाव इत्यादि । कायस्वभावो जन्मप्रभृत्यनित्यता-विनश्वरत्वं बालकुमारयौवनमध्यमस्थविरावस्थाः पूर्वपूर्वावस्थोपमर्दैनोत्तरोत्तरावस्थावरूपं प्रतिलभन्ते, अतः परिणामानित्यतां शरीरस्य भावयेद् यावदायुषः परिसमाप्तिः । ततः क्रोधेनाग्निना वा सारमेयशकुन्तसम्पातेन वा वातातपशोषणेन वा विघटितः शरीराकारपरिणतपुद्गलप्रबन्धः सद्यो द्वयणुकादिस्कन्धभेदेन परमाणुपर्यवसानेन विभक्तोऽनित्य इति व्यपदिश्यते। सुचिरमपि चैष लालितः पालितः कुङ्कुमागुरुकर्पूरकस्तूरिकानुलेपनादिमृष्टान्नपानवसनाच्छादनादिना चाकाण्ड एव ध्वंसते । भावयतश्चैवं शरीरे निर्ममता भवति । ततश्च . . . संवेगवैराग्ये इति । अपरः कायस्वभावाद् दुःखहेतुत्वं बाधालक्षणं दुःखम् । सा च बाधा : शरीरस्वान्ताश्रया । ततश्च यावच्छरीरं तावदपि दुःखोपभोगस्तदाश्रयो न व्यवच्छिद्यते । पुद्गलात्मप्रदेशानामन्योन्यानुगतौ क्षीरवारिणोरिवाविभागे सति आत्मनः पुद्गलनिमित्तो दुःखानुभवः । ततश्च दुःखहेतुतां भावयन्नात्यन्तिकोच्छेदायास्य दग्धशरीरकस्यायतते । तथाऽन्या निःसारता कायस्वभावः त्वग्मांसादिपटलभेदेनोद्वेष्टयमानेऽप्यमुष्मिन् शरीरके रम्भागर्भ इव मेदोऽस्थिपञ्जरान्त्रजललसिकामूत्रशकृत्कफपित्तमज्जादिसञ्चये न काचित् सारमात्रोपलभ्यते प्रधानतासारकनकरत्नादिवत् तदभावादयं निःसारो लेभेऽणुकाष्ठवत् कायकलिरकालभङ्गुर इत्येवं भावयतः शरीरेऽभिषङ्गो न भवतीति । तथाऽशुचित्वं कायस्वभावः । अशुचित्वं लोकप्रतीतं, तच्च काय एव भूयसा दृश्यते, गर्भव्युत्क्रान्तिमानुपशरीरस्य तावन्मौलं कारणमसृग्रेतसी । ततस्तयोरेव कललाबुदमांसपेश्यादिपरिणामः
१ 'पुनर्जीवस्वभाव' इति क-पाठः । २ 'दर्शी तदु' इति ङ-पाठः । ३ 'चोपलालितः' इति ग-पावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org