________________
•
६०
तत्वार्थाधिगमसूत्रम्
44
स्वभावी तौ भावयेत् । तत्र जगत्स्वभावस्तावत् प्रियविप्रयोगाप्रियसम्प्रयोगेप्सितालाभदारिद्र्यदौर्भाग्यदौर्मनस्य वधबन्धनाभियोगासमाधिदुःखसंवेदनलक्षणः । तथा जगत्स्वभावः 'माता भूत्वा दुहिता " ( प्रशमरतौ, श्लो० १५६ ) इत्यादि । तथा सर्वस्थानान्यशाश्वतानि संसारिणां संसार इति । धर्मादिद्रव्याणां च परिणामित्वादनन्त पर्यायरूपेण गमनात् तेष्वपि परिणामानित्यतां भावयेत् । कायस्वभावोऽपि पितृमात्रोरोजः शुक्रमुभयमेकीभूतं गर्भजानां प्राणिनां शरीरतया परिणमत इत्यादिलक्षणः । सम्मूर्च्छनोपपातजन्मनां तूत्पत्तिदेशावगाढस्कन्धादाननिर्माणानि वपूंषि कायस्वभावः भवन्त्यशुभ परिणामभाञ्जि नानाकाराणि परिशटनोपचितिधर्मकत्वाद् विनश्वराणीत्येवं रुक्षणः कायस्वभावः । तावेतौ जगत्कायस्वभावौ किमर्थं भावनीयावित्याह- संवेगवैराग्यार्थम् । यथासंख्याकेन सम्बन्धः । जगत्स्वभावं भावयेत् संवेगार्थ, कायस्वभावं वैराग्यार्थमिति । संवेगाय वैराग्याय च (संवेग ) वैराग्यार्थम्, 'चतुर्थी तदर्थार्थ ० ' ( पा० अ० २, पा० १, सू० ३६ ) इति समासः । तत्र संवेगः संसारभीरुत्वादिलक्षणः । वैराग्यं शरीरनिष्प्रतिकर्म तादिलक्षणम् ।
सूत्रितमेवार्थ भाष्येण स्पष्टयन्नाह -
-
भा० – जगत्कायस्वभावौ च भावयेत् संवेगवैराग्यार्थम् । तत्र जगत्स्वभावो द्रव्याणामनाद्यादिमत्परिणामयुक्ताः प्रादुर्भावतिरोभावसूत्रगतशब्दानां स्थित्यन्यतानुग्रहविनाशाः । कायस्वभावोऽनित्यता दुःखहेतुत्वं निःसारताऽशुचित्वमिति । एवं ह्यस्य भावयतः संवेगो वैराग्यं च भवति । तत्र संवेगो नाम संसार भीरुत्वमारम्भपरिग्रहेषु दोषदर्शनादतिः धर्मे बहुमानो धार्मिकेषु च ।
व्याख्या
[ अध्यायः ७
टी० – जगत्कायस्वभावौ चेत्यादिना । जगत्कायायुक्तलक्षणौ, तत्स्वभावौ तु भाष्यकृता स्वयमेव व्याख्यातौ । संवेग्यवैराग्ये (ग्यार्थ) च भावयेदित्येतावदनेन भाष्येण विधीयते । तत्र जगत्स्वभाव इत्यादि । तत्रेति जगत्कायस्वभावयोर्जगत्स्वभावस्तावदुच्यते । जगत् जीवाजीवद्रव्याणि तत्स्वभावाः - परिणामाः तेषामेव जगच्छब्दवाच्यानां द्रव्याणां - द्रव्यपुद्गलादीनां अनाद्यादिमत्परिणामयुक्ता इति । कश्चिदनाद्यः परिणामो जीवस्यासंख्येयप्रदेशवत्वचेतनावस्वज्ञानवत्त्वादिः, कश्चिदादिमान् देवतादिः । पुद्गलद्रव्यस्यापि मूर्तिमत्त्वरूपादिमत्वादिरनादिः, आदिमान् घटपटादिलक्षणः । धर्माधर्म योर्लोकाकाशव्यापित्वादिरनादिः आदिमान् गतिस्थितिपरिणतद्रव्यजनितः । लोकाकाशस्यामृर्तत्वासंख्ये यप्रदेशवच्चादिरनादिः, आदिमानवगाहकद्रव्यापेक्षः । एभिर्युक्ताः प्रादुर्भावादयो जगत्स्वभावाः । अनाद्यादिमत्परिणा
१ 'शेषोपायो' इति प्रारम्भकः 'क्रियाविशेषस्तस्य' इत्यन्तकः क ख पाठः तु प्रक्षिप्त इति स्पष्टम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org