________________
सूत्रं ७ ]
.स्वोपज्ञभाष्य-टीकालङ्कृतम्
अनेकेनाप्युपायेनात्रोधयितुमशक्याः प्रकृष्टमिथ्यादर्शनाज्ञानोदयवर्तिनो रक्तद्विष्टपूर्वव्युद्राहिताथाविनेयास्तेषु | माध्यस्थ्यं औदासीन्यं इत्यादि पर्यायकथनेन व्याख्यां तनोति । अरक्तद्विष्ट - उदासीनः तद्भाव औदासीन्यम् । उपेक्षेति ईक्षणम् -आलोचनं सामीप्येनारक्तद्विष्टतया । अरागवृत्तिता अद्वेषवृत्तिता वोपेक्षेत्येकार्थाभिधायिनः शब्दाः ||
भा०- अविनेया नाम मृत्पिण्डकाष्ठकुड्यभूता ग्रहणधार णविज्ञाने हाऽपोहवियुक्ता महामोहाभिभूता दुष्टावग्राहिताश्च । तेषु माध्यस्थ्यं भावयेत् । नहि तत्र वक्तुर्हितोपदेश साफल्यं भवति ॥ ६ ॥ किञ्चान्यत्
५९
टी. - अविनेया नामेत्यादि । विनीयन्ते - शिक्षां ग्राहयितुं शक्यन्त इति विनेयाः, न विनेया अविनेयाः, अशिक्षार्हा इत्यर्थः । नामशब्दो वाक्यसौभाग्यप्रयोजनः । मृत्पिण्डेत्यादिशब्द उपमार्थः । मृत्पिण्डकाष्ठकुड्यानीव मृत्पिण्डकाष्ठकुडयभूताः, यथा मृत्पिusicयो निश्चेतनाः श्रोत्रादीन्द्रियव्यापारशून्या नोपदिष्टमपि हितं समाददते तद्वत् ये ते तथोक्ताः । एतदेव स्पष्टतरं विवृणोति - ग्रहणधारणेत्यादिना । श्रवणेन्द्रियावधानेनोपदेशग्रहणं प्रतिपत्तिः । गृहीतस्या विस्मरणं धारणम् । एवमेतदिति निश्चितप्रत्ययो विज्ञानम् । हा तान्वेषिणी जिज्ञासा । विचारणोत्तरकालं अपोहः सदोषपक्षत्यागः । एभिर्ग्रहणादिभिर्वियुक्ताः । महामोहो- मिथ्यादर्शनं तेनाक्रान्ता अभिगृहीतमिथ्यादृष्टयः । दुष्टावग्राहिताचेति । दुष्टास्तु रागादिदोषभाजः तैश्च पक्षानुरागात् परपक्षद्वेषाच्चान्यथावस्तुग्राहिताः । अवग्राहिता इति विप्रलब्धाः, ते च आजीवितावधि स्त्रमसग्रहं न मुञ्चन्ति । तेषु च माध्यस्थ्यं भावयेत् । पूर्वकेषु त्ववगतेरभावाद् विफल उपदेशः । किं पुनः कारणमेतेषु माध्यस्थ्यं भावनीयम् ? । नहि तत्रेत्यादि । नैव तत्र मृत्पिण्डादितुल्ये दुष्टावग्राहिते च वक्तुः - कथयितुहितोपदेशदान साफल्यं भवति । निष्फलं चोपदेशं तीर्थकृतोऽपि नाद्रियन्ते, यथाऽऽह— सर्वत्र देशविरति "मित्यादि । एवं च भावयतो मैत्र्यादिवतानां स्थैर्यं भवतीति ॥ ६ ॥
4+
अयमपरोऽभिनवाकुशल कर्मोदान निवृत्तिपरेण महाव्रतधारिणा क्रियाविशेषः प्रणिधेयो भावनाप्रस्ताव इत्यादर्शयति । किञ्चान्यदित्यनेन सम्बन्धयति ।
अन्यदपीदं भावनीयमित्याह
सूत्रम् — जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ॥ ७-७ ॥
डी० – तांस्तान् देव मानुष- तिर्यङ् नारकपर्यायानत्यर्थं गच्छतीति जगत्-प्राणिजातम्च्यते, धर्मादिद्रव्यसन्निवेशो वा, चीयत इति कायः - शरीरम्, जगच्च कायश्च जगत्कायौ तयोः
१ — वधेः ’ इति ग-पाठः । २ 'सव्वं च देसविरई' इति आवश्यक-निर्युक्तौ ( गा० ५६४ ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.