________________
भाष्य
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ७ कण्डूपरिगतत्वोच्चाब्रह्मेति, तथा परिग्रहेष्वप्राप्तप्राप्तनष्टेषु काङ्क्षाशोको प्राप्तेषु च रक्षणमुपभोगे
वाऽवितृप्तिरिति, तदनार्प सूत्रकरणमिति विज्ञायते । यदि च सूत्रं स्यात् करणे दोषः
त्रा तत उपभोगे वाऽवितृप्तिरित्यस्यावयवस्य विवरणं स्यात् , न चास्ति,
तस्मादनार्ष सूत्रद्वयमन्तरालकमिति । एवम्-इत्युक्तेन प्रकारेण भावयतो वासयतः स्थैर्य वतिनो व्रतानां भवति ॥५॥
किश्चान्यदित्यनेन सम्बन्धमाह । भावनाप्रस्तावेऽन्यच्च किं भावयितव्यमित्यत आहसूत्रम्--मैत्रीप्रमोदकारुण्यमांध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमा
नाविनेयेषु ॥ ७-६॥ टी-मैत्र्यादीनां कृतद्वन्द्वानां द्वितीयाबहुवचनेन निर्देशः । सत्वादीनामपि कृतद्वन्द्वानां भावनाविषयत्वेनाधिकरणविभक्तिबहुवचनेन निर्देशः । किञ्चान्यदित्यस्यार्थ स्पष्टयति
भा०-भावयेद् यथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । क्षमेऽहं मैत्रीभावना
सर्वसत्त्वानाम् । मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति॥ टी०-भावयेद् यथासङ्ख्यमित्यनेन भाष्येण । भावनावसरे इदमपरं मैत्र्यादि भावयेत् । तच यथासङ्ख्यमभिसम्बध्य भावयेत् । मैत्री सत्त्वेषु, प्रमोदं गुणाधिकेषु, इत्येवमन्यत्रापि योज्यम् । मैत्री सर्वसत्त्वेष्वित्यादि भाष्यम् । मित्रं 'जिमिदा स्नेहने' औणादिकः ष्ट्रन् । मिद्यतीति मित्रं, स्निह्यतीत्यर्थः । तस्य भावः समस्तसत्त्वविषयः स्नेहपरिणामो मैत्री । येऽपि कृतापकाराः प्राणिनः प्रमादादन्यथा वा तेष्वपि मित्रतां चेतसि सनिवेश्य मित्रमहमेतेषां एते च मे मित्राणीति तत् कथमहं मित्रद्रोहतां प्रतिपत्स्ये १। दौर्जन्याश्रयं हि मित्रद्रोहित्वम् । अतः क्षमेऽहं सर्वसत्त्वानामिति क्षमां भावयेत् । सम्यक मनोवाकायैः सहेऽहं सर्वसत्त्वानाम् । एवं हि मित्रता यथार्थत्वमासादयति । येषां च मयाऽपकारः कृतस्तानपि सत्त्वान् क्षमयेऽहं मित्रत्वात् । हस्वत्वं ‘णिचश्च' (पा० अ० १, पा० ३, सू० ७४) इत्यात्मनेपदम् । क्षमये इति क्षमां ग्राहयामि सर्वान् प्राणिनः प्रशस्तेन चेतसा । स्वचेतसश्च कालुष्यमपनेयमित्येवमुपनयस्तन्त्रे । परस्तु क्षमेत वा न वेत्येतदेव स्पष्टतरं विवृणोति–मैत्री मे सर्वसत्त्वेषु वैरं मम न केनचिदिति । वीराणामिदं कर्म 'तस्येदम्' (पा० अ०४, पा० ३, सू० १२० ) इत्यण । वैरमविच्छिन्नकोपर्पराणां शूराणामन्योन्यव्यापादनलक्षणा कर्मपरम्परा, तत्र कृतापकारेण अंकृतापकारेण वा केनचिदसुमता सार्धमवैरानु
१ 'स्वादब्रह्मेति' इति ङ-पाठः। २ 'माध्यस्थानि' इति घ-पाठः। ३ 'क्षमये' इति घ-पाठः । प्रसराणां ' इति -पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |