________________
सूत्रं ६ ]
स्वोमज्ञभाष्य - टीकालङ्कृतम्
बन्धः । स चैष प्रसृतदुरितशाखाशतसम्बाधो मात्सर्यविषयोदयः पुनः पुनरविच्छिन्नबीजाङ्कुरप्रसवप्रत्यलस्तीक्ष्णप्रज्ञाकुठारधाराच्छेद्यो ऽवधीरितसकलशेषोपायो मैत्रीभावनया निरवशेषमामूलादुस्कर्तनीयः ॥
प्रमोदभावना
व्यक्तो मनः प्रहर्ष इति ॥
भा०- -प्रमोद गुणाधिकेषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मो भयकृतपूजाजनितः सर्वेन्द्रियाभि
५७
टी० - प्रमोद गुणाधिकेष्वित्यादि । सम्यक्त्वादिगुणाधिकेषु व्रतिषु प्रमोदं - प्रहर्ष भावयेत् । प्रमोदव्याचिख्यासया प्रमोदो नामेत्याद्याह । नामशब्दो वाक्यालङ्कारार्थे । अलङ्कारः सुभगता श्रोत्रसुखत्वं, शिक्षानिसर्गावदातो लोकाराधनसमर्थो विनयः सामान्येन । तद्विशेषस्तु विनीयते येन कर्म - विलयमापद्यते स विनयो ज्ञानदर्शन चरणोपचारभेदः क्रियाविशेषस्तस्य प्रयोगः- अनुष्ठानम् । विनयार्हेषु वन्दनं- प्रधैर्मनोवाक्कायैर्विशेषत उत्तमाङ्गेन वन्दनार्हाणां पादस्पर्शनम् । स्तुतिः - स्तुत्यानां सद्भूतगुणोत्कीर्तनम् । वर्णवादो - यशः प्रख्यापनं वर्णो-यशस्तत्प्रथनम् । अवदातचरिताः खलु मुनयोऽमी यथोत्क्षिप्तमोक्षानुगुणचेष्टा भारवाहिन इत्यादिकः । वैयावृत्त्यं - व्यावृतता बालग्लानगुरूपवासिशैक्षप्राघूर्ण कानुद्दिश्याऽपरान् वा मुनीनागमविहितभक्तपानवस्त्रपात्रप्रतिश्रयदण्डकाद्युपकरणमार्गणानयनप्रदानलक्षणो व्यापारस्तस्यानुष्ठानं करणम् । आदिशब्दाद देशकालापेक्षः साधुद्देशेनानेकप्रकारः पूजाहेतुः संगृहीतः । सम्यक्त्वं तत्त्वार्थश्रद्धानलक्षणम् । ज्ञानं - हिताहितप्राप्तिपरिहारविषयो बोधः । चारित्रं - मूलोत्तरगुणभेदम् । तपो - बाह्याभ्यन्तरविधानम् । एभिः सम्यक्त्वादिभिरधिकाः साधवो गृहस्थादिभ्यस्तेषु परेणात्मना उभा (भया) भ्यां वा कृता या वन्दनादिलक्षणा पूजा तया जनित - उत्पादितः सर्वेन्द्रियाभिव्यक्त इति । सर्वग्रहणं सम्भवापेक्षम् | साधुगुणोत्कीर्तनसमये विततकर्णदानविकसदुत्फुल्ललोचनाविर्भूतरोमाञ्चकञ्चुकता दिलिङ्गप्रकटितो मनः प्रहर्षः प्रमोद इत्याख्यायते ॥
कारुण्य
भा०— कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकम्पा दीनानुग्रह ईत्यभावना नर्थान्तरम् ।
डी० - कारुण्यमित्यादि । करुणा- अनुकम्पा तद्भावः कारुण्यम् । कः पुनरस्य विषय इति क्लिश्यमानेष्वित्याह । कर्तरि लः । क्लिश्यमानेषु सन्तापमनुभवत्सु । एतदेव प्रपञ्चयति भाष्यकारः — कारुण्यमनुकम्पेत्यादि । अनुकम्पा दीनानुग्रह इति कारुण्यप
Jain Education International
१ ' प्रयोगवन्दन० ' इति ग-पाठः । २ ' इत्यर्थः ' इति घ-पाठः । ३ ' प्रताप०' इति ग-पाठः, ' ताप● ' इति तु ङ-पाठः ।
For Private & Personal Use Only
www.jainelibrary.org