________________
सूत्रं ५] . स्वोमज्ञभाष्य-टीकालङ्कृतम् कामसुखं दुःखमेवेति ख्याप्यते । तीयेत्यादि कण्डूविशेषणम् । तीव्रा-पराकाष्ठां गता त्वक्चर्मशोणितममग्मांसपिशितमेदाद्यनुगता-प्राप्ता । न चैवंविधया कण्ड्वा परिगतात्मा व्याप्तशरीरः काष्ठादिकण्डूयनक्रियायाः कारणं नानारूपमपदिशति । काष्ठशकलं-काष्ठखण्डं येन कण्डूया निवर्तते । लोष्टः-इष्टकादिखण्डम् । शर्करा-शर्करोटादिका । नखशुक्तयोनखमुखानि । प्रदर्शनमात्रमेतत् । एभिः काष्ठशकलादिभिर्विच्छिन्नगात्र इति विदारितगात्रः कृतत्वक्छेदस्ततश्च स्रवता रुधिरेणाः । कण्डूयमान इति कण्डूजूधातोर्जित्वात् कमिप्राये क्रियाफले आत्मनेपदम् । कण्डूयमानः-कण्डूयां निवर्तयन् एवंविधावस्थो दुःखमेव सुखमिति मन्यते मोहात् । प्रयोगोऽपि भाष्यार्थानुगतो-विवादगोचरापन्नो बीजनिसर्गों न सुखं प्रति कारणं, व्याधिप्रतीकारमात्रत्वात् पामनकण्डूयावत् । यः पुनरैकान्तिकात्यन्तिकसुखहेतुः स नैव व्याधिप्रतीकारमात्रकारी ज्ञानक्रियालक्षण इति । तदन्मैथुनोपसेवीत्यनेन साय॑मापादयति दार्टान्तिकस्य दृष्टान्तेन सह । ततश्च सह दुःखभावनावासितचेतसो मैथुनादू व्युपरमः श्रेयानिति ॥
यथा प्राणातिपातादयो दुःखं तथा परिग्रहोऽपीति प्रतिपादयति
भा०–तथा परिग्रहवानप्रासपासनष्टेषु कौरक्षारक्षणशोकोद्भवं दुःखमेव प्रामोतीति परिग्रहाद् व्युपरमः श्रेयानिति । एवं भावयतो व्रतिनो व्रतस्थैर्य भवति ॥५॥ किञ्चान्यत
टी-परिग्रहः सचित्तादिभेदो ममत्वसम्बन्धः । स च ममत्वी परिग्रहवान् । अप्रासादीनि त्रीण्यपि कृतद्वन्द्वानि परिग्रहविशेषणतयोपात्तानि । काङ्क्षादित्रयमपि कृतद्वन्द्वम् । साक्षाद् दुःखहेतुत्वोपपत्तेः । अप्राप्तविशिष्टपरिग्रहता काङ्क्षादिहेतुः। काक्षादयोऽपि दुःखहेतवः। काङ्क्षादिभ्य उद्भवो यस्य दुःखस्य तत् तथोक्तम् । तत्र काङ्क्षा-अभिलाषोऽर्जनम्उपादाने प्रयत्नः स च दुःखमेव, खेदकारित्वात् । एवं तावदप्राप्तेषु दुःखभावना । प्राप्तेषु च परिग्रहेषु नृपदहनतस्करदायादमूषिकादिभ्यो रक्षणे नित्योद्विग्नः कुर्वन् दुःखमेव प्राप्नोति । नष्टेषु तु परिग्रहेषु दुःखनिमित्ततः स्मृत्यनुषङ्गलक्षणोऽसह्यः शोकस्ततः स तद्भवशर्म प्राप्नोति । अतः परिग्रहाद व्युपरमः श्रेयानिति। एवं भावयत इत्यादिना दुःखमेवेत्यस्य सूत्रस्य परिसमाप्तिमादर्शयति । ततश्च ये भाष्यमेव कयापि बुद्धया सूत्रीकृत्याधीयते व्याधिप्रतीकारत्वात्
१'निवर्त्यते' इति ग-पाठः। २ निवर्तयन् ' इति उ-पाठः । ३ ' सुखप्रतीतिकारणं ' इति ग-पाठः, 'सुखकारणं' इति तु उ-पाठः । ४' सम्यगापाद.' इति ङ-पाठः। ५ 'परिग्रहेषु अप्राप्तनटेषु काङ्क्षाशोको प्राप्तेषु च रक्षणं उपभोगे चावितृप्तिः' इत्यधिकः घ-टी-पाठः। ६'परिग्रहेषु काङ्क्षा०' इति ख-पाठः। ७ 'उपभोगे चावित. प्तिरिति' इत्यधिको घन्टी-पाठः। ८ 'त्वोपात्तः' इति ग-पाठः। 'माप्नोति' इति ख-र-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org