SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ सर्गसमकालभाविस्पर्शनेन्द्रियद्वारकं सुखमनुभवप्रमाणसिद्धं भूयसां प्राणिनामपहुवानस्य प्रतीतिप्रत्यक्षविरोधाववश्यंभाविनावित्यारेकिते भाष्यकृदाह-तच नेत्यादि । तदित्यनेन स्पशेनसुखमभिसम्बध्यते । न खलु तत् सुखं, दुःखमेवेत्यभिप्रायः। वक्ष्यमाणोऽयमेतदृष्टान्तबलात् प्रतीतिप्रत्यक्षविरोधावनास्पदौ, इतरस्तमेव दृष्टान्तमभिध्यायन्नाह-कुत इति । कस्मादेतत् स्पर्शनसुख दुःखमेव प्रतिपत्तव्यं युक्त्यन्तरात् ? । साध्यसाधनसङ्गतेन हि साधर्म्यदृष्टान्तेन प्रतिपत्तिरुपजायते साध्यसाधनशून्येन व्यतिरेकदृष्टान्तेन वेति भाष्यकार आह—व्याधिप्रतीकारत्वादित्यादि । राजपुत्रीक्षयकुष्ठादयो व्याधिविशेषास्तेषां प्रतीकारः-प्रतिक्रिया, तन्निदानपरिहारेण भेषजोपयोगः पथ्यासेवनं च । उद्भूतो हि व्याधिः शरीरमनसो धामाधत्ते । बाधाप्रतिक्षेपश्च भेषजाधपयोगसाध्यः । कर्मणां च क्षयोपशमोदयादयः क्षेत्रकालद्रव्यभावाद्यपेक्षा न खल्वात्यन्तिकं सुखोपजननमाधातुं समर्थाः, दुःखप्रतिबन्धमात्रकारित्वात् । मूढाश्च तमवस्थाविशेष सुखमिति मन्यन्ते । व्याधिश्च मकरध्वजः ॥ प्रथमोद्दिष्टव्याधितुल्यविपाकत्वात् हेतुविचारणायाह भा०-असुखे ह्यस्मिन् सुखाभिमानो मूढस्य । तद्यथा-तीव्रया त्वकशोणितमांसानुगतया कण्ड्वा परिगतात्मा काष्ठशकललोष्टशर्करानखशुक्तिभिविच्छिन्नगात्रो रुधिराद्रः कण्डूयमानो दुःखमेव सुखमिति मन्यते । तदन्मैथुनोपसेवीति मैथुनाद् व्युपरमः श्रेयान् ॥ टी०-असुखे ह्यस्मिन्निति। दुःखमेव भ्रान्ताः सुखमित्युपचरन्ति मोहादज्ञानाचेत्यतोऽसुखे तस्मिन् सुखबुद्धिर्यथा गण्डादिषु पाकाभिमुखेषु परिपकेषु च तीव्रवेदनापरिगतस्य जन्तोस्तत्पाटनपूयनिःसरणेन वेदनामात्रप्रशमस्तथा पुरुषवेदाधुदयात् तीवार्तिभाजोऽवधीरितविवेकबलस्य यत्किञ्चनकारिणो ग्रहाविष्टस्येव परवशतः सदाऽऽर्तध्यानपीड्यमानमनसः स्यादिसंयोगे विलपतोऽसभ्यानि प्राप्तमूर्छागमस्येव बाढं क्लिश्नतो बीजलेशानुत्सृजतः ... पूयलवानिव सुखमभिमन्यमानस्य मोहनीयकर्मविजम्भनिर्भरचेतसो मैथुने न सुखावाप्तिः दुःखमेव, अस्मिन् प्रत्यक्षप्रमाणसमधिगम्ये कुतः प्रतीत्यनुभवविरोधा विति । यस्त्वनुभवस्तत्र सुखरूपः सोऽभिनिविष्टबुद्धेरभिमानवतः समुपजातभ्रान्तेः शुक्तिकायां रजतप्रत्ययानुभववदिति । अतो विवादगोचरापन्नो बीजनिसर्गो न सुखहेतुः, व्याधिप्रतीकारत्वात् पूयादिनिसर्गवत् । अस्मिंश्च प्रतिज्ञाने दृष्टान्तः सुलभ इत्यनुपातोऽपि भाष्यकृता व्याख्यात्रा प्रदर्शितः। भाष्यकारीयदृष्टान्तस्तु-तद्यथेत्यादिना भाष्यते । १'मभिधापयन्नाह' इति ङ-पाठः। २ 'विवरणाय' इति -पाठः। ४'भाव्यते' इति ग-पाठः। ३ 'शिलालोष्ट. ' इति क-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy