________________
सूत्रं ५)
स्वोपजभाष्य-टीकालङ्कृतम् पर्यवसानम् । एवं सर्वेषां सत्त्वानामप्यप्रियं वधबन्धच्छेदनपाटनोल्लम्बनादिहेतुकमात्मानुमानादवसेयमित्येवमालोचयतः कृतिनो मनसि निश्चितमवतिष्ठते । अतो हिंसाया व्युपरमः श्रेयानिति ॥
अनृतभाषणमपि दुःखमेवेत्यभिधित्सुराह
भा०—यथा मम मिथ्याभ्याख्यानेनाभ्याख्यातस्य तीवं दुःखं भूतपूर्व भवति च तथा सर्वसत्त्वानामिति अनृतवचनाद् व्युपरमः श्रेयान् ॥
टी०-यथा ममेत्यादि । मिथ्याभ्याख्यानं प्राय व्याख्यातं, तेन मिथ्याभ्याख्यानेन-अलीकाध्यारोपेण अभ्याख्यातस्य-अभिमुखमाख्यातस्याभियुक्तस्य प्रकाशितस्य चानेनेदं कृतमुक्तं वेति तन्निमित्तं यथा मम प्रकृष्टं तीवं दुःखं भूतम्-उत्पन्नपूर्वमित्यर्थः, सम्प्रति वा भवत्यलीकाध्यारोपात् तथा सर्वसत्त्वानां ताडगेव तीनं दुःखमभ्याख्यानहेतुकमुपजायतेऽस्मिन्नेव लोके, अमुष्मिन् पुनर्लोके मिथ्याभ्याख्यानपरो यत्र जन्म प्रतिलभते तत्र तत्र ताशेरेवाभ्याख्यानैरभियुज्यमानः सदा दुःखमनुभवतीत्यनृताद् व्युपरम: श्रेयानिति ॥
हिंसानृतभाषणदुःखवत् स्तेयमपि दुःखमेवेत्याह- भा०-यथा ममेष्टद्रव्यवियोगे दुःखं भूतपूर्व भवति च तथा सर्वसत्वानामिति स्तेयाद् व्युपरमः श्रेयान् ॥
टी०-यथा ममेत्यादि । यथा मम खद्रव्यस्येष्टस्य वियोगेऽपहारक्रियया तस्करैः कृते दुःखं शारीरं मानसंवा पूर्वमभूत् भवति वाऽधुना तथा सर्वसत्त्वानाम् । अतःस्तयाद व्युपरमः श्रेयानिति ॥ यथा च हिंसानृतस्तेयानि दुःखस्वभावानि,
भा०—तथा रागद्वेषात्मकत्वान्मैथुनं दुःखमेव । स्यादेतत् स्पर्शनसुखमिति । तच न । कुतः १व्याधिप्रतीकारत्वात् कण्डूपरिगतवच्चाब्रह्मव्याधिप्रतीकारत्वात् ॥ - टी.-पूर्वदुःखतुल्यतामतिदिशति । मायालोभौ रागः । क्रोधमानौ द्वेषः । माया छनरूपा । तदाकारपरिणामश्च हिंसानृतस्तेयेषु प्रवतेते । लोभोऽपि गायेलामस्तत्परिणामश्च मांसादिगाादुक्तोऽवग्रहणेन चौर्येण चैतेषु प्रवर्तते । तथा क्रोधमानाभ्यामपि प्रेरितो हिंसादिषु प्रवर्तते इत्यत्यन्तप्रसिद्धम् । 'मैथुनस्यापि तावेव रागद्वेषौ निदानं, रागद्वेषकारणत्वाच मैथुनमपि दुःखमेवेत्यवधार्यते । रागद्वेषावात्मनः स्वभाव:-कारणं यस्य तद् दुःखमेव रागद्वेषात्मकत्वाद् हिंसादिवत् । स्यादेतदित्यादिना ग्रन्थेनाशङ्कते। प्रसिद्धिरियम्-योषितामुपभोगे दशनच्छदपानाक्षिचुम्बनवपुःपरिरम्भणपीनस्तनतटीनखमुखावदारणगुह्यसंयोगवीर्यनि
१ 'निश्चेतमव०' इति ख-ङ-पाठः। २ 'जन्मनि '. इति ङ-पाठः । ३ परिणतश्च' इति -पाठः । ४ 'यूतस्यापि' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org