________________
सूत्र ४ ] . खोपज्ञभाष्य-टीकालङ्कृतम् आदिग्रहणादुल्लम्बनशिरश्छदादिभिः, प्रतिलभत इति प्रतिप्राप्नोति । कृतस्य प्राणातिपातस्य च फलप्राप्तिरिहैवेति । प्रेत्य चेत्यादिना फलमामुष्मिकं दर्शयति । प्रेत्य चेति मृत्वा । अशुभा गतिः-नरकतिर्यकुमानुषत्वानि । गर्हितो-निन्दितः । प्राक्तनजन्मोपात्ताशुभकर्मविपाकोऽयमस्य पापकारिणो वराकस्येत्येवं संम्भावयतो विवेकबलादस्य निश्चयप्रत्यय उत्पद्यते-हिंसायास्त्यागो-व्युपरमः श्रेयानिति ॥
भा०–तथाऽनृतवादी अश्रद्धयो भवति । इहैव जिहाच्छेदादीन अनृतस्य विपाकः मातलमत।
टी०-यथा प्राणातिपातकारी प्रत्यवायेन युज्यते तथाऽनृतवाद्यपीत्याहअनृतं वक्ष्यमाणलक्षणं तद्वादी भवति अश्रद्धेय इति । अश्रद्धेयः अविद्यमानश्रद्धेयं वचनमस्येति सामर्थ्यादभिसम्बध्यतेऽनृतस्य प्रक्रान्तत्वात् । इहैवेत्यादिना प्रत्यवायमैहिकमामुष्मिकं च दर्शयति-जिहाच्छेदादीनिति । आदिशब्दात् कर्णनासिकाकरणच्छेदपरिग्रहः ।
भा०-मिथ्याभ्याख्यानदुःखितेभ्यश्च बद्धवैरेभ्यस्तद्धिकान् दुःखहेतून प्रामोति, प्रेत्य चाशुभांगतिं गर्हितश्च भवतीति अनृतवचनाद् व्युपरमः श्रेयान् ॥
टी०-मिथ्या अलीकं अभ्याख्यान-अनृतवचनम्॥ ननुच मिथ्याग्रहणमतिरिच्यते। यस्माल्लोकेऽभ्याख्यानाशब्दोऽनृतवचन एव प्रसिद्ध इति । अभ्याख्यायक एव मिथ्याशब्दः। यद्वाऽभ्यापर्वस्य चक्षिङोल्युटि वचनमात्रमभिलापोऽभ्याख्यानशब्देनोच्यते, तद्विशेषणाय चेदमुपादीयते मिथ्येत्येवमर्थवत्,नास्ति अलीकवचनेनैव चारोपयत्यनेनेदं कृतमनेनेदमिति, तेनाभ्याख्यानेनोत्पन्नदुःखास्तेभ्यश्चेति । पूर्वदोषापेक्षश्चशब्दः । बद्धति। अविच्छिन्नं वैरं येषां तेभ्यः । तदधिकानिति जिहाच्छेदादिभ्योऽपि अतिशयेन यातनाप्रकारान् मिथ्याभ्याख्यानाधिकत्वाद् दुःखहेतूनू वधबन्धादीन् प्राप्नोति । तीव्राशयो हि तीवस्थित्यनुभावमेव कर्मादत्ते। मुख्यः खहेतुराशयस्तत्पुरःसराः शेषहेतवः । प्रेत्येत्यादिनाऽऽमुष्मिकं फलमादर्शितम् , यसाच्चैवंविधो विपाकोऽनृतवचनस्य तस्मात् तद्व्युपरमः श्रेयानिति ॥ यथा प्राणातिपातालीकानुष्ठायिनौ प्रत्यवाययुक्तौ,
भा०-तथा स्तेनः परद्रव्यहरणप्रसक्तमतिः सर्वस्योरेजस्तेयस्य विपाकः नीयो भवति । इहैव चाभिघातवध बन्धन हस्तपादकर्ण
नासोत्तरोष्ठच्छेदनभेदनसर्वस्वहरणवध्यपानमारणादीन् प्रतिलभते, प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति स्तेयाद् व्युपरमः श्रेयान् ॥
१'प्रतीतफल.' इति उ-पाठः । २ 'निन्द्यः इति ग-ङ-पाठः । ३ 'सम्भावयति ' इति ग-पाठः । ४ 'निश्चय सत्पद्यते' इति ङ-पाठः। ५ 'यदा' इति ग-पाठः । ६'स्याचक्षिणरो ल्युटि' इति ग-पाठः । ७ 'बद्धमित्यव." इति ग-अ-पाठः । ८ ' भवतीति' इति घ-पाठः । ९ 'यातन' इति घ-पाठः। १० 'भवति' इति ग-पाठः। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org