________________
तत्वार्थाधिगमसूत्रम्
[अन्यायः ७ याणामा-विषयाः स्पर्शादयः पञ्चैव येषां मनोज्ञा रागहेतवस्तेषां मनोज्ञानाम्-इष्टानां स्पर्शरसगन्धवर्णशब्दानां प्राप्तौ-ग्रहणे सति गायवर्जनम् । गाय-स्नेहः--तेषु रागपरिणामोऽतस्तद्वर्जनं श्रेयः । तथा अमनोज्ञानाम्-अप्रीतिहेतूनां ग्रहणे वेषवर्जनम् । द्वेषःक्रोधमानपरिणामः तत्त्यागात् पञ्चैता भावना भाव्यमानाः प्रतिक्षणमाकिञ्चन्यं परिपूरयन्ति । ममत्वलक्षणो भावतः परिग्रहः तद्व्यवच्छेदादपरिग्रहतेति ॥ ३ ॥
किश्चान्यदिति सम्बध्नाति, भावनाप्रस्तावेऽन्यदपि मोक्षगुणं भावयेदिति । इतिशब्दः अप्यर्थे । प्रतिव्रतं पञ्च पञ्च भावनाः प्रतिपादिताः । सम्प्रति तु सर्वव्रतसामान्यभावनाः कथ्यन्त इति ॥
सूत्रम्-हिंसादिष्विहामुत्र चापायावद्यदर्शनम् ॥७-४ ॥
भा०—हिंसादिषु पञ्चस्वास्रवेषु इहामुत्र चापायदर्शनम् अवद्यदर्शनं च भावयेत् ॥
टी-हिंसा आदिर्येषां तेषु हिंसादिषु इहेत्यस्मिन्नेव लोके अमुत्रेत्यमुष्मिन परलोके नरकादिजन्मनि अपाय:-अनर्थपरम्परा अवयं-गर्हितं पापं तद्विपाकानरकादिषु तीव्रदुःखानुभवनमपायावद्ययोदर्शनम्-उपलब्धिः , उपलभमानश्च न प्रवर्तते हिंसादिषु, ज्ञानपूर्वकत्वात् क्रियानुष्ठानस्येति । एनमेवार्थ भाष्येण प्रपञ्चयति-हिंसादिष्वित्यादिना । हिंसादिष्वासवेषु कियत्सु ? पञ्चस्वित्याह । हिंसानृतस्तेयाब्रह्मपरिग्रहेषु आस्रवा उक्तलक्षणाः तेष्वपायदर्शनमवद्यदर्शनं च भावयेत् । इहैवामी प्रत्यवाया हिंसादिषु प्रवृत्तस्य दृश्यन्ते, पापविपाकश्च दारुणोऽमुत्रेत्येवं मुहुर्मुहुर्भावयेत् ॥
भा०-तद्यथा-हिंसायास्तावत् हिंस्रो हि नित्योजनीयो नित्याहिंसाया विपाकः नुबद्धवैरश्च । इहैव वधबन्धपरिक्लेशादीन् प्रतिलभते प्रेत्य
चाशुभां गति गर्हितश्च भवतीति हिंसाया व्युपरमः श्रेयान् ॥ टी-तद्यथेत्यादि । तयोरपायावद्ययोविभागमाचक्षाणो हिंसायास्तावदित्याह । हिंसासम्बन्धिनी तावदपायावद्ये प्रकाश्येते पश्चादलीकानाम् । हिंसनशीलो हिंस्रः-प्राणव्यपरोपणे जातशक्तिः। हिशब्दो यस्मादर्थे । नित्यं सततमुखेजनीयः-संत्रासकारी । 'कृत्यल्युटो बहुलं'(पा. अ०३, पा०३, सू०११३)इति कर्तरि कृत्यप्रत्ययः । सर्वदा उद्वेजको निसा(निःसी?)मायुधो भीषणवेपो ललाटतटारोपितभूभङ्गः प्रकृष्टामप॑ारसनिर्भरारुणलोचनो गाढदष्टदशनच्छदः सत्त्वानामुढेगकारीति प्रतीतम् । नित्यानुबद्धवैरश्चेति । नित्यमनुबद्धं-प्रसक्तं वैरमस्येति नित्यानुबद्धवैरः,सर्वदा प्रवृत्तवैरसन्तानश्च त(य)स्मान्नित्योद्वेजनीयो नित्यानुबद्धवैरश्च भवति।तस्मादिहवेत्यभिसम्बन्धः । इहैवेत्यस्मिन्नेव लोके वधः-ताडनं द्विवलकशादिभिर्वन्धः पश्चापिण्डनहडीनिग. डगलशृङ्खलादिकः परिक्लेशोऽङ्गुष्ठग्रहणोष्मस्थापनजलावसेककाष्ठेष्टकरोपणादिप्राणव्यापत्तिः,
१ हिंसाशीलो' इति ग-पाठः । २ 'गोष्णस्थापन ' इति ङ-पाठः । ३ 'व्यापच्च ' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org