________________
सूत्रं ३ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
४७
भावनाः
भा० - ब्रह्मचर्यस्य स्त्रीपशुपेण्डक संसक्त शयनासन वर्जनम्, ब्रह्मचर्यस्य पञ्च रागसंयुक्तस्त्रीकथावर्जनम्, स्त्रीणां मनोहरेन्द्रियालोकवर्जनम्, पूर्वरतानुस्मरणवर्जनम्, प्रणीतरस भोजनवर्जनमिति ॥ टी० – अब्रह्मासेवननिवृत्तिः ब्रह्मचर्यम् । तस्यापि पञ्च भावनाः, तद्यथा - स्त्रीत्यादि भाष्यम् । स्त्रियो रूढ्या देवमानुषभेदाद् द्विविधाः । पशुग्रहणात् तिर्यग्जातिपरिग्रहः । तत्र वडवा - बालेयी - गो-महिष्य-जाविकादिषु सम्भवति मैथुनम् । एताश्च सचित्ताः, अचित्ताः स्त्रियः पुस्तलेप्यचित्रकर्मादिषु बहुप्रकाराः । पण्डकास्तृतीयवेदोदयवर्तिनो महामोहकर्माणः योषास्यसेवनाभिरताः क्लीवा इति प्रसिद्धाः कृतद्वन्द्वैरेभिः संसक्तमाकुलं शय्यते यत्रास्यते च तच्छ्यनासनं प्रतिश्रयसंस्तारकांसनादि, तच्च बह्नपायत्वाद् वर्जनीयमित्येवमात्मानं भावयेत् । तथा स्त्रीपशुपण्डकानामसन्निधानेऽपि रागसंयुक्त स्त्रीकथावर्जनम् । मोहोद्भवः कषायो रागः तदाकारपरिणामो रागसंयुक्तः । स्त्रीणां कथा स्त्रीकथा, रागसंयुक्तस्य स्त्रीकथा, अथवा रागसंयुक्ता चासौ स्त्रीकथा चेति रागानुबन्धिनी देशजातिकुलनेपथ्यभाषागतिविभ्रमेङ्गितहास्यलीलाकटाक्षप्रणयकलह शृङ्गाररसानुविद्धा वात्येव चित्तोदधेरवश्यंतया विक्षोभमातनोति तस्मात् तद्वर्जनं श्रेय इति भावयेत् । तथा स्त्रीणां मनोहरेन्द्रियालोकनवर्जनं मनोहराणि मानोन्मानलक्षणयुक्तानि दर्शनीयानि सृजावन्तीन्द्रियाणि योषितामपूर्व विस्मयरसनिर्भरतया विस्फारितलोचनः प्रेक्षते विकचकुवलयविपुलदलच्छवि नयनयुगलमस्याः कर्णजाहमकटाक्षमप्यालोकितं झगिति मनसिजज्वलनमा दीपयति, किमुत विकटकटाक्षकवचितम् १ | एवं यथाविभागसन्निविष्टावयवानि श्रोत्रप्राणवदनपीनपयोधरभरजघनस्थलादीनि वाच्यानि । त्वगिन्द्रियभेदत्वात् स्तनकलशाद्युपन्यासः । इत्येवं तदालोकनाद्युपरतिः श्रेयसीति भावयेत् । तथा पूर्वरतानुस्मरणवर्जनं प्रव्रज्यापर्यायात् पूर्वो गृहस्थपर्यायस्तत्र रतं - क्रीडितं विलसितं यदङ्गनाभिः सह तस्यानुस्मरणात् कामाभिस्तत्स्मरणेन्धनानुसन्धानतः सन्धुक्षते, अतस्तद्वर्जनं श्रेय इति भावयेत् । तथा प्रणीतरस भोजन वर्जनमिति । प्रणीतो वृष्यः स्निग्धमधुरादिरसः क्षीरदधिनवनीतसर्पिर्गुडतैल पिशितमद्यापूपादिस्तदभ्यवहारो - भोजनं ततो मेदोमज्जायुक्राद्युपचयस्तस्मादपि मोहोद्भवः, अतः सतताभ्यासतः प्रणीतरसाभ्यवहारो वर्जनीय इत्यात्मानं भावयेद् ब्रह्मचर्यमिच्छन्निति ॥
"
भा०-- आकिञ्चन्यस्य पञ्चानामिन्द्रियार्थानां स्पर्शरसगन्धवर्णशब्दानां मनोज्ञानां प्राप्तौ गार्ध्यवर्जन ममनोज्ञानां प्राप्तौ द्वेषवर्जनमिति || ३ || किञ्चान्यदिति ।
टी० - किञ्चनं बाह्याभ्यन्तरपरिग्रहः । अविद्यमानकिश्चनः अकिश्चनस्तद्भाव आकिश्चन्यं-अपरिग्रहता तद्भावनाः पश्च । तदमिधित्सयेदमाह-पञ्चानामित्यादि । पञ्चानामिन्द्रि
१' षण्डक०' इति घ- पाठः । २ संकुलमाकुलं ' इति क-पाठः । ३ ' ० काशनादि' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org