________________
[अध्यायः ७
४४
तवार्थाधिगमसूत्रम् । उक्तं व्रतं सविधानमणु महञ्च, तत्र महाव्रतमधिकृत्य भावनासूत्रम्
सूत्रम्-तत्स्थैर्यार्थ भावनाः पञ्च पञ्च ॥ ७-३॥ टी०-अणुव्रतस्य चोपरि बन्धवधादिकातिचारपरिहाररूपा वक्ष्यमाणा (अ०७, सू०२०) अपायावद्यदर्शनादिकाश्च सामान्यरूपाः । महाव्रतं चोपभोगा(वर्गा?)भिलाषिभिः प्राणिभिधृतिसंहननपरिहाण्या प्रमादबहुलैः दूरक्षमतस्तत्प्रतिपातपरिहारार्थ भाव्यन्त इति भावनाः । तदित्यनेन पञ्चविधस्येति, सर्वनाम्नाऽनन्तरत्वान्महाव्रतमभिसम्बध्यते । भाष्यकारस्तु यद्यपि सामान्येन व्रतस्येति विवृणोति, तथापि तच्छब्दोपादानसामर्थ्यान्महावताभिसम्बन्धः । अन्ये तु व्याचक्षते-द्वयोरपि व्रतयोन्याय्यः सम्बन्धः। सम्भवति हि श्रावकस्यापि कस्यचिद यथोक्तं भावनाजालमेवं त्वव्याप्तिः स्यात्, व्यापिन्यश्च वतिनो भावना इष्यन्ते । व्रतानां भावनानां भा०-तस्य पञ्चविधस्य व्रतस्य स्थैर्यार्थमेकैकस्य पञ्च पश्च
सङ्ख्या भावना भवन्ति । - टी०–तस्य व्रतस्य पञ्चविधस्येति पञ्चप्रकारस्य सर्वप्राणातिपातविरत्यादेः स्थैर्यार्थदाळपादनार्थ-स्थिरत्वं प्रयोजनमुद्दिश्य अभ्यस्यन्ते, अनभ्यस्यमानाभिर्भावनाभिर्मलीमसीभवन्त्यनभ्यस्यमानविद्यावन्महाव्रतानीति । एकैकस्येति व्रतस्य । सामानाधिकरण्येन षष्ठी, न समु. दितानां पञ्चानामपीति ॥ ननु पञ्च पश्चेति वीप्साविवक्षा । यत एकैकस्येति लप्स्यत एव, अन्यथा वीप्सानैरर्थक्यं स्यादिति। उच्यते-सामान्यविशेषाभ्यां व्याख्यातृभिः प्रतिपाद्यतेऽर्थः,पञ्चविधस्य व्रतस्येति सामान्येनोपक्रम्य पुनर्विशेषेणैकैकस्येत्याह समुदाये मा भूदिति । पञ्च पश्चेति वीप्सायां
द्विवचनम् । अपरे तु सूत्रमधीयते-तत्स्थैर्यार्थ भावनाः पञ्च पश्चश इति । सूत्रपाठविचारः ते चैवमभिदधति-संख्यावाचिनः प्रातिपदिकाद् वीप्सायां द्योत्यायां
"कारकाच्छम्प्रत्ययोऽन्यतरस्या"मिति । द्वौ द्वौ ददाति द्विशो ददातीति वाक्यं वृत्तिश्च । तदेतदनुपपन्नम् । यतः शम्प्रत्ययान्तेन व्रतानि भावना वा सम्बध्येरन, यदि व्रतानि ततः षष्ठयन्तेन सम्बन्ध्यानि पञ्चानां पश्चानामिति । ततोऽकारकत्वात् षष्ठया: शम्प्रत्ययो न लभ्यते । अथ भावनामिसम्बन्धस्ततः पञ्च भावना भवन्तीति पञ्चश इति वक्तव्यम् । द्वितीयं पञ्चग्रहणं न कर्तव्यम् । तत्स्थैयोथै भावनाः पञ्चश इति पठितव्यम् । एवप्नुभयथाऽपि न घटते शस्प्रत्ययः । अतस्तत्स्थैर्यार्थ भावनाः पञ्च पश्चेति न्याय्यं सूत्रम् ॥
भा०-तद्यथा-अहिंसायास्तावदीर्यासमितिः, मनोगुप्तिः, एषअहिंसायाः पञ्च
। णासमितिः, आदाननिक्षेपणासमितिः, आलोकितपानभोजन
मिति ॥
भावना
१ 'पञ्चशः ' इति घ-टी-पाठः। २ : पूर्वैरनुमतः' इति क-पाठः । ३ ' समानाधिकरणे ' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org