________________
सूत्रं ३ ]
स्कोपभाष्य-टीकालङ्कृतम् ___टी०-तद्यथेत्यनेन प्रस्तुतभावनोपन्यासः । अहिंसायास्तावदिति । अहिंसा प्राणातिपातविरतिः । तावच्छब्दः क्रमद्योतकः । अस्याः प्रथममुच्यते, पश्चान्मृषावादादिविरतेरभिधास्यते । ईरणमीर्या--गमनं तत्र समितिः-सङ्गतिः श्रुतरूपेणात्मनः परिणामः, तदुपयोगिना पुरस्ताद् युगमात्रया दृष्ट्या स्थावरजङ्गमानि भूतानि परिवर्जयन्नप्रमत्त इत्यादिको विधिः ईयोसमितिः। मनसो गुप्तिमनोगुप्तिः-मनसो रक्षणमातरौद्रध्यानाप्रचारः धर्मध्याने चोपयोगो मनोगुप्तिः । एषणा गवेषणा-ग्रहण-ग्रासभेदात् त्रिधा । तत्रासमितस्य षण्णामपि कायानामुपपातः स्यात्, यतस्तत्संरक्षणार्थमेषणासमितिः समस्तेन्द्रियोपयोगलक्षणा । आदानं-ग्रहणं निक्षेपणं-मोक्षणमौधिकोपग्रहिकभेदस्योपधेरादाननिक्षेपणयोः समितिरागमानुसारेण प्रत्यवेक्षणप्रमार्जना । आलोकितपानभोजनमिति प्रतिगेहं पात्रमध्यपतितपिण्डश्चक्षुरायुपयुतेन प्रत्यवेक्षणीयस्तत्समुत्थागन्तुकसत्त्वसंरक्षणार्थमागत्य च प्रतिश्रयं भूयः प्रकाशवति प्रदेशे स्थित्वा सुप्र(त्य)वेक्षितं पानभोजनं विधाय प्रकाशप्रदेशावस्थितेन वल्गनीयम् । इतिकरणः प्राणवधविरतेर्भावनेयत्ताव्यवस्थापनार्थः । एवमेताः पश्च भावना मुहुर्मुहुर्भावयन्वासयन् बहुलीकुर्वन् सकलामहिंसां पातुं प्रत्यलो भवतीति ॥
सम्प्रति सत्यवचनस्य भावनाः पञ्च प्रतिपादयन्नाहसनतस्य पक्ष भा०-सत्यवचनस्यानुवीचिभाषणं क्रोधप्रत्याख्यानं लोभप्र"भावनाः त्याख्यानं अभीरुत्वं हास्यप्रत्याख्यानमिति ॥
टी-सत्यवचनस्येत्यादि । सत्यम्-अवितथं सद्भूतार्थप्रतिपत्तिकारि, असद्भूतं च विपरीतार्थप्रतिपादनं,प्राणानुपघातशून्यम् । अनुवीचीति देशीवचनमालोचनार्थे वर्तते। भाषणं वचनस्य प्रवर्तनम् । अतोऽयमर्थः-समीक्ष्यालोच्य वचनं प्रवर्तितव्यम् । अनालोचितभाषी कदाचिन्मृषाऽप्यभिदधीत । ततश्चात्मनो लाघववैरपीडाः फलमैहिक, परसत्त्वोपघातश्च नियत इति । तस्मात् समीक्ष्योदाहरणेनात्मानं भावयन्न मृषावचनजनितेनैनसा सम्पृच्यते । क्रोधः कषायविशेषो मोहकर्मोदयनिष्पन्नोप्रीतिलक्षणः प्रद्वेषप्रायः । तदुदयाच्च परवान् वक्ता स्वपरनिरपेक्षो यत्किञ्चनभाषी मृषाऽपि भाषेत । अतः क्रोधस्य प्रत्याख्यानं निवृत्तिरनुत्पादो वा, (तेन) नित्यमात्मानं भावयेत् । एवंच वासयन् सत्यादि न व्यभिचरतीति । लोभः तृष्णालक्षणः कूटसाक्षित्वादिदोषाणामग्रणीः समस्तव्यसनैकराजो जलनिधिरिव दुर्भरः कर्मोदयाविभूतो रागपरिणामस्तदुदयादपि वितथभाषी भवति । अत्र सत्यवतमनुपालयता तदाकारपरिणामः प्रत्याख्येय इति भावनीयम् । भयशीलो भीरुस्तच्चैहिकादिभेदात् सप्तधा मोहनीयकर्मोदयजनितमुदयाच तस्यानृतभाषणं सुम्भं भवतीत्यभीरुत्वं भावयेत् । अभीरुश्च न जातु
१'प्रधानमोह' इति इ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org