________________
सूत्रं २]
.खोपजभाष्य-टीकालङ्कृतम् __ भा०–एभ्यो हिंसादिभ्य एकदेशविरतिरणुव्रतं, सर्वतो विरतिर्महाव्रतमिति ॥२॥
टी-एभ्य इत्यादिना । एभ्य इति प्रस्तुतानि परामृश्य हिंसादीनि सर्वतो व्यवच्छिन्दबाह-एकदेशविरतिरणुव्रत मिति । सकलपाणिगणविषया हिंसा, तस्याश्च विरतिर्न सवस्याः, किन्तु एकदेश इति एकदेशग्रहणेनैव स्पष्टयति-न सर्वस्मात् प्राणिव्यपरोपणाद विरतिः, किन्तु एकदेशात् , स्थूलादित्यर्थः । स्थूलसूक्ष्मप्राणिभेदात् सङ्कल्पजारम्भमेदाद् वा । स्थूलान्मृपावादादिति कूटसाक्ष्यदानादि स्थूलः, ममोदिप्रयोगतः सूक्ष्मः। स्थूलाददत्तादानादिति हठहरणादि स्थूलं यत्रैहिकामुष्मिकाचौर्यदोषा गृहिणाम् , सूक्ष्मं परिहासतः परकीयपरि(१)लघुणकाष्ठादिग्रहणं वा। स्थूलान्मैथुनाद् विरमति स्थूलत्वमेकदेशजनितमत्र प्रतीयते स्वदारसन्तोषः परदारनिवृत्तिवो । स्वदारसन्तुष्टः शेषयोषितो मातृवदनुपश्यति, परदाराभिगमनानिवृत्तः पेरपरिगृहीतयोषितः परिहरति, अपरिगृहीतवेश्यामभिगच्छति । तथा इच्छापरिमाणादन्यतो विरमामीति । केचिन्महाव्रतानुपातात् स्वल्पत्रतत्वादणुव्रतमिति व्याचक्षते॥ .. सम्प्रति महाव्रतव्याचिख्यासयाऽऽह-सर्वतो विरतिर्महाव्रतमिति। सर्वत इति । सर्वस्मात् सूक्ष्मात् स्थूलाच प्राणव्यपरोपणाद् विरमामीत्यादि । एवं शेषाण्यपि सर्वतो वाच्यानि । महाविषयत्वान्महाव्रतमित्येतानि पञ्च महाव्रतानि भवन्ति सम्यक्त्वयुक्तानि मूलवाच्यानि ॥ ननु च यथैव मृषादिनिवृत्तिरहिंसाव्रतपालनार्थत्वान्मूलगुणाः, एवं निशीथभोजनविरतिरपि मूलगुणः स्यात् । उच्यते-अहिंसावतपरिपालनार्थत्वादिति समितिभिरनै कान्तः, अपि च महाव्रतधारिण एव तन्मूलगुणः तद्विरहितस्य यस्मान्मूलगुणा एवापरिपूर्णाः स्युः, अतो मूलगुणग्रहणे तद्रहणमथोक्षिप्तम् । यथाच सवव्रतोपकारि रात्रिभोजनं न तथोपवासादि, अतस्तन्मूलगुणो महानतिनः, शेषमुत्तरगुणः । अणुव्रतधारिणस्तूत्तरगुणो निशाभोजनविरतिराहारत्यागादुपवासवत् तप एव वा तदितिः प्रतीतम्। कः पुनर्दोषो रात्रिभोजन इति चेत् एवं मन्यते-उद्गमादिदोषरहितस्य वासरपरिगृहीतस्याभ्यवहारेणान्धसो नक्तं न किल दोष इति ।
- एतदयुक्तम् । कालातिक्रान्तस्य प्रतिषिद्धत्वात्, गृहीतस्यानीतालोचितक्षरात्रिभोजन निष : णविश्रान्तिसमनन्तरमेव च भुजेरभ्यनुज्ञानात्, निशाहिण्डने चेयोपथविशु
ढेरसम्भवात्, दायकगमनागमनसस्नेहपाणिभाजनाय दर्शनात्, आलोकितपानभोजनासम्भवात् । ज्योत्स्नामणिप्रदीपप्रकाशसाध्यमालोकनमिति चेत् तदप्यसत्, अग्निसमारम्भनिषेधात, रत्नपरिग्रहाभावात, ज्योत्स्नायाः कादाचिकत्वात्, आगमे तनिषिद्धत्वात्, हिंसादिवदनासेवनीयमेव विभावरीभक्तमिति ॥२॥
१ :परिग्रहयोषितः' इति ग-पाठः । २.०पालनात् ' इति -पाठः। ३ 'मित्याह ' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org