________________
४२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ७ यत् तच्चेतसि सभिवेश्य विवृतं भाष्यकारेण । आस्रवाध्यायवक्तव्यशेषमेव वाऽधिकृत्य सप्तमाध्यायमाह। व्रतशब्दः शिष्टसमाचारात निवृत्तौ प्रवृत्तौ च प्रयुज्यते लोके । निवृत्ते चेद्धिसातो विरतिःनिवृत्तिव्रतं, यथा-वृषलानं व्रतयति-परिहरति । वृषलान्नान्निवर्तत इति, ज्ञात्वा प्राणिनःप्राणातिपातादेनिवर्तते । केवलमहिंसादिलक्षणं तु क्रियाकलापं नानुतिष्ठतीति तदनुष्ठानप्रवृत्त्यर्थश्च व्रतशब्दः । पयो व्रतयतीति यथा, पयोऽभ्यवहार एव प्रवर्तते नान्यत्रेति, एवं हिंसादिभ्यो निवृत्तः शास्त्रविहितक्रियानुष्ठान एव प्रवर्तते, अतो निवृत्तिप्रवृत्तिक्रियासाध्यं कर्मक्षपणमिति प्रतिपादयति । निवृत्तिप्रवृत्ती च शास्त्रचोदिते, तदनुष्ठानान्मोक्षावाप्तिरिति ॥ ननु च भाष्यकारो निवृत्तिवचनमेव व्याचष्टे व्रतशब्देन, प्रवृत्तिवचनमपीति तदेतत् कथम् । अयममिप्रायो भाष्यकृतः-अन्यतरोपादानेऽन्यतरप्रतीतिः सम्बन्धशब्दत्वाद् भवत्येव पितापुत्रादिवत् । यत उक्तम्-"ज्ञानक्रियाभ्यां मोक्ष" इति ।प्राधान्यात् तु निवृत्तिरेव साक्षात् प्राणातिपा. तादिभ्यो दर्शिता, तत्पूर्विका च प्रवृत्तिर्गम्यमाना । अन्यथा तु निवृत्तिर्निष्फलैव स्यादिति ।
विरतिशब्दस्या निरूपयति
भा०-विरति म ज्ञात्वाऽभ्युपेत्याकरणम् । अकरणं निवृत्तिरुपरमो विरतिरित्यनान्तरम् ॥१॥
टी-विरतिर्नामेत्यादिना। विरमणं विरतिः । नामशब्दो वाक्यालङ्कारार्थः । हिंसनं हिंसा-प्राणवियोजनम् । प्राणाश्चेन्द्रियादयस्तत्सम्बन्धात् प्राणिनः एकद्वित्रिचतुःपञ्चेन्द्रियाख्यास्तान् विज्ञानानुसारात् अभ्युपेत्य-श्रद्धाय प्रतिपद्य भावतोऽकरणं विरतिः । ज्ञानश्रद्धानपूर्वकं चारित्रमितियावत् । तदेव चाकरणं विवृणोति पर्यायैः-अकरणं निवृत्तिरुपरमो विरतिरित्यनर्थान्तरमिति । चरणस्यैते पर्यायाः । तत्राकरणमिति निवृत्तिप्रवृत्तिक्रियालक्षण चारित्रं मनोवाकायकृतकारितानुमतिभेदोत्पन्नसप्तचत्वारिंशच्छतविकल्पभावनया परिहारानुष्ठाने, एवं निवृत्त्यादयोऽपि भावनीयाः, पर्यायशब्दैश्व व्याख्यानमसम्मोहाथै प्रदेशान्तरेविति॥१॥
__तदेतदविशेषचोदितं पञ्चतका विषयव्रताभिधानं विरत्याश्रयद्वयविवक्षावशेनासकलकस्वभावादुभयथा वेदितव्यमित्याह
सूत्रम्-देशसर्वतोऽणुमहती ॥७-२ ॥ टी-देशश्च सर्व च देशसर्वे ताभ्यां देशसर्वतः । विरामार्थापेक्षा पश्चमी । अणु च महच्चाणुमहती। कथं पुनर्विरतिसामान्यमेकं सत् द्विधा भिद्यते । विवक्षावशेन देशसर्वाभिधानाच्चैकत्वादिविवक्षायामेकवचनादिवत् हिंसादिविरतिव्रतप्रस्तावाच यथाक्रममभिसम्बन्धः । देशसर्वग्रहणं विरत्या सहाभिसम्बध्यते । अणुमहद्रहगं व्रतेन । देशतो विरतिरणुव्रतं, सर्वतो विरतिर्महाव्रतम् । एतमेव सूत्राथे भाष्येण स्पष्टयति
१ . ०कृत सप्त. ' इति क-पाठः। २ 'निवर्तन्ते ' इति ग-पाठः । । ३ ' प्रतीयतीति ' इति क-पाठः । ४.एतनिवृत्त्या' इति ड-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org