________________
सप्तमोऽध्यायः ७
-of
तत्रादिमं भाष्यम् -
भा० - अत्राह-उक्तं भवता सोता वेद्यस्यास्रवेषु ( अ० ६ सू० १३ ) भूतत्रत्यनुकम्पेति । तत्र किं व्रतं को वा व्रतीति ? । अत्रोच्यते
टी. - अत्राहोक्तं भवतेत्यादिना सम्बध्नाति भाष्यकारः । सूत्रेषूक्तं षष्ठाध्याये सबेदनीयकर्मास्रवेषु भूतवत्यनुकम्पेति सकलसूत्रोपलक्षणम् । अथवा यावत् सम्बन्धोपयोगितावत एवोपादानं, व्रतीति श्रूयते मत्वर्थीयप्रत्ययान्तः । तत्र किं व्रतं को वा व्रतीति प्रश्नेनोपक्रम्यते ॥ ननु च व्रतप्रश्न एव न्याय्यः तत्प्रस्तावात् तत्परिज्ञानात् तु तत्सम्बन्धे व्रती सुज्ञान एवेति । उच्यते - विशिष्टसम्बन्धख्यापनार्थं व्रतिग्रहणं, वक्ष्यत्युपरिष्टात् " निःशल्यो व्रती" (अ० ७, सू० १३) इति । प्राणातिपातादिविरतयो मायादिशल्यविविक्ता व्रतव्यपदेशमश्नुवते, तथाविधव्रतसम्बन्धाच्च व्रतीति । अत्रोच्यत इति व्रतस्वरूप निर्णयार्थमाहव्रतव्याख्या सूत्रम् — हिंसारत स्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्ब्रतम् ॥ ७-१ ॥
टी० - व्रतिस्वरूपं त्विदमेव भाष्यमनूद्योपरिष्टात् प्रतिपादयिष्यते । गृह्णीमस्तावद् व्रतान्यथ व्रती क इत्यत्रेति । हिंसादयः कृतद्वन्द्वाः पञ्चम्यन्ताः । पञ्चमी च जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानादपादानलक्षणा, तां च प्रत्येकं हिंसाया इत्यादिना भाष्येण दर्श
यति - भा०- -हिंसाया अनृतवचनात् स्तेयादब्रह्मतः परिग्रहाच कायवाङ्मनोभि• विरतिर्ब्रतम् ।
टी ० - हिंसादयश्च वक्ष्यमाणलक्षणाः । तत्र कषायादिप्रमादपरिणतस्यात्मनः कर्तुः कायादिकरणव्यापाराद् द्रव्यभावभेदेन प्राणव्यपरोपणं हिंसा । प्रागभिहितहिंसादीनां व्याख्या सामान्यलक्षणयोगे सति सद्भूतनिवासद्भूतोद्भावना विपरीत कसावद्या दि • मृषावचनम् । परपरिगृहीतस्य स्वीकरणमाक्रान्त्या चौर्येण शास्त्रनिषिद्धस्य वा स्तेयम् । पूर्वलक्षणयोगान्मोहोदये सति चेतनाचेतन स्रोतसोरासेवनमब्रह्म । सचित्ताचित्तमिश्रेषु द्रव्यादिषु शास्त्राननुमतेषु ममत्वं परिग्रहः । चशब्दः समुच्चयार्थः । एभ्यो हिंसादिभ्यः कायवाङ्मनोभिर्विरतिर्व्रतम् । विरतिः - निवृत्तिः ॥ ननु चासूत्रितत्वात् काया - दित्रयमनुपादेयं भाष्येण । नायं दोषः । आत्मना हि विरतिः । सा च करेंणमवश्यतयाऽपेक्षते । तच्च कायाद्येव योग्यम् । अथवा प्रमत्तयोगादित्यत्र योगग्रहणलक्षणसूत्रे सर्वव्रतविशेषणार्थं
Jain Education International
?
१ सद्वेद्य ० ' इति पाठः । २ ' हिंसादय ' इति गङ-पाठः । ३ ' शास्त्रप्रतिषिद्धस्य ' इति ङ-पाठः । करणावश्यतया ' इति ग-पाठः ।
६
For Private & Personal Use Only
www.jainelibrary.org