________________
तार्थाधिगमसूत्रम्
[ अध्यायः ६
व्याख्या
णामयोगिनोऽन्तरायाभिधानस्य कर्मण आस्रवो भवति । एतदेव भाष्येण स्पष्टयति-दानादीनामित्यादि । दानमादिर्येषां ते दानादयो दानलाभ भोगोपभोगवीर्यादान लाभादीनां ख्याः । तत्र दानं विशिष्टपरिणामपूर्वकं स्वस्य परस्वत्वापादनम् । तदेव गृमाणं प्रतिग्रहीत्राऽऽदेयं लाभ उच्यते । भोगो मनोहारिशब्दादिविषयानुभवनम् । उपभोगोऽन्नपानवसनाद्यासेवनम् । वीर्यमालपरिणामो विशिष्टचेष्टालक्षणः । एषां दानादीनां विघ्नकरणं येन येनोपायेन न दत्ते तं तमुपायमापादयति दातुः, एवं येन येनोपायेन न लभते लिप्सुस्तथा भोगोपभोगानुभवनसमर्थो येन येनोपायेन न भवति यथा चास्य-वीर्यम् - उत्साहः-पराक्रमो न भवति तथा तथाऽनुतिष्ठतेऽन्तरायस्य कर्मण आस्रवो भवति । इतिशब्दो विघ्नकरण विशेषप्रदर्शनार्थः ॥
अधुना सकला स्रवप्रकरण परामर्शद्वारेणोपसंहरत्यध्यायार्थम् एते साम्परायिकस्येत्यादिना । एते तत्प्रदोषनिहवादयः संसारभ्रमण कारणस्याष्टअध्यायोपसंहारः विधस्य ज्ञानावरणादेरन्तरायपर्यवसानस्य कर्मणः पृथक् पृथग्र विवेकना पुनरु ( पृथगु) क्ततया आस्रवविशेषाः सामान्यास्रवापेक्षया विशेषा भवन्ति । इतिशब्दोऽत्राभिधित्सितसंक्षिप्तार्थपरिसमाप्ताविति ॥ २६ ॥
४०
॥ इति श्रीतत्त्वार्थ सूत्रे भाष्यसंयुक्ते भाष्यानुसारिण्यां तत्त्वार्थटीकायाम् आस्रवप्रतिपादनपरः षष्ठोऽध्यायः समाप्तः ।। ६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org