________________
३९
सूत्रे २५-२६] .. स्वोपज्ञभाष्य-टीकालङ्कृतम् नीचैर्गोत्रस्य कर्मण आस्रवा भवन्ति । तत्र स्वात्मव्यतिरिक्तः परस्तस्य गुणवतोऽपि गुणापह्नवद्वारेण निन्दा-अपवदनमभूतानां भूतानां च दोषाणामुद्भावनं, स्वात्मनः प्रशंसनं-स्तुतिर्गुणोद्भावनम् अभूतानां भूतानां च गुणानामात्मनैव प्रख्यापनम् । सन्तो गुणा विद्यमानास्तेषां छादनं-संवरणं स्थगनं, द्वेषात् पृष्टोऽपृष्टो वा नाचष्टे गुणान् सतोऽपि, प्रस्तुतत्वात् परसम्बन्धिगुणगणच्छादनमेव सम्बन्ध्यम्, आत्माभिसम्बन्धेनासताम्-अभूतानामेव गुणानामुद्भावनं करोत्यपृष्टः पृष्टो वा प्रख्यापयतीतियावत् । एतदेव च स्फुटतरं विभजते-आत्मपरोभयस्थमिति । आत्मस्थमसद्गुणोद्भावनं परस्थं सद्गुणच्छादनमात्मपरावेवोभयं तत्र स्थितं--वर्तमानम् । नीचेरिति । नीचं-जघन्यं-हीनम् । गोत्रमिति गूयते-अभिधीयते आहूयते वाऽनेनेति गोत्रम् । यत् काशुभं तन्निमित्तीकृत्याभिधा प्रवर्तते चण्डालश्वपचमत्स्यबन्धादि तन्नीचैर्गोत्रं कर्म अभिसम्बन्धात् चशब्दोऽपि कुत्साहेतुष्वेव प्रयुज्यते । एवमेते परनिन्दादयो जातिकुलरूपबलश्रुता - श्वर्यतपोमदपरावज्ञानोपासनकुत्सनादयश्च नीचैर्गोत्रस्यास्रवा भवन्तीति ॥ २४ ॥
इदानीमुच्चैर्गोत्रस्यास्रवाभिधित्सयेदमाहउञ्चैर्गोत्रस्यानवार सूत्रम्-तद्विपर्ययौ नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥२५॥
भा०-उत्तरस्येति सूत्रक्रमप्रामाण्यादुच्चैर्गोत्रस्याह । नीचैर्गोत्रास्त्रवविपर्ययो नीचैत्तिरनुत्सेकश्वोचैर्गोत्रस्यास्रवा भवन्ति ॥ ६-२५ ॥ __टी०-तदिति सर्वनाम पूर्वप्रकृतापेक्षं प्राक् प्रकृता नीचैर्गोत्रास्रवास्तेषां विपर्ययोयथाभिहितवैपरीत्यं परगुणप्रशंसा आत्मनिन्दा च सद्गुणप्रकाशनमसद्गुणच्छादनं च परत्र, आत्मनि तु सद्गुणच्छादनमप्यात्मोत्कर्षपरिहारार्थ, तथा नीचैर्वृत्तिः-नीचैवर्तनं विनयप्रवणवाकायचित्तता । उत्सेको-गर्वः श्रुतजात्यादिजनितः नोत्सेकेऽनुत्सेको-विजितगर्वता । एतौ नीचैर्वृत्त्यनुत्सेको चशब्दात् तद्विपर्ययश्च उत्तरस्येति सूत्रक्रमप्रामाण्यादुचैर्गोत्रस्याह । इतिशब्दः पदार्थकः । नीचैर्गोत्रमुक्तलक्षणं तस्यास्रवविपर्ययः परगुणप्रशंसादिरपरं चास्रवद्वयं नीचैत्तिरनुत्सेकश्वोचैर्गोत्रस्यास्रवाभवन्ति । उच्चैरिति । उच्चम्--उत्कृष्टमिक्ष्वाकुहरिभोजराजन्यादीति ॥ २५ ॥
उक्तं गोत्रम् । आस्रवाधिकार एवायमनुप्रवृत्तस्तत्र समस्तकर्मप्रत्यवसाननिर्दिष्टस्यानुग्राहकसुखव्यवच्छेदकृतोऽन्तरायस्य क आस्रव इत्युच्यतेअन्तरायस्यानवाः सूत्रम्-विघ्नकरणमन्तरायस्य ॥ ६-२६॥
भा०-दानादीनां विघ्नकरणमन्तरायस्यास्रवो भवतीति ॥ एते साम्परा.. यिकस्याष्टविधस्य पृथक पृथगास्रवविशेषा भवन्तीति ॥ २६ ॥
टी०-विनो-क्षिातः-प्रतिषेधः सव्याजो निर्व्याजश्च तस्य करणम्-अनुष्ठानं तत्परि१. गुणाच्छादनमेव ' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org