________________
तस्वार्थाधिगमसूत्रम् ..
[अध्यायः ६ व्यापारः । तत्परिणामितेतियावत् । वाचनाप्रच्छनाऽनुप्रेक्षाऽऽनायधर्मोपदेशैरभ्यसनं तीर्थकरनामकर्मण आस्रवः॥
भा०-संवेगश्च । यथाशक्तिस्त्यागस्तपश्च । सङ्घस्य साधूनां च समाधिवैयावृत्त्यकरणम् । अर्हत्स्वाचार्येषु बहुश्रुतेषु प्रवचने च परमभावविशुद्धियुक्ता भक्तिः ।
टी०-संवेगश्चेति । अभीक्ष्णमिति सम्बध्यते । चशब्दः समुचितौ । संवेसंवेगस्य व्याख्या जनं संवेगो भीतिर्विचलनं वा संसारदुःखाजातिजरामरणस्वभावात्
प्रियविप्रयोगादेव भयपरिणामः प्रतिक्षणं जगत्कायानित्याशुचित्वादिचिन्तनाच सांसारिकसुखेष्वनभिलाषस्तत्प्रवणपरिणामाद् विचलनं संवेगः । स चाभीक्ष्णं तादृशः परिणामः समुपजायमानस्तीर्थकरनामकर्मण आस्रवः। यथाशक्तिः-सामर्थ्य-सत्त्वोकाः,यथा स्वानुपाशक्तियेथाशक्तिः तत्पूर्वकस्त्यागः स्वानुरूपशक्त्यपेक्षः, स्वस्य न्यायार्जितस्यानुकम्पानिर्जितात्मानुग्रहालम्बनं भूतेभ्यो विशेषतस्तु विधिना यतिजनाय दानं-त्यागस्तीर्थकरनामकर्मण आस्रवः । तपश्चेति । यथाशक्तिरित्यभिसम्बध्यते । कर्मणस्तापनाच्छोषणात् तपः । तद् द्विधा, अन्तर्बहिर्भेदात् । पुनरेकैकं पोढा प्रायश्चित्तादिभेदादनशनादिभेदाच । तत् स्वसामर्थ्यापेक्षमनुष्ठीयमानं लोकपतिपूजाभिलाषतृष्णानिरपेक्षेण चेतसा तीर्थकरनामकर्मण आस्रवः। सङ्घः-समूहः सम्यक्त्वज्ञानचरणानां तदाधारश्च साध्वादिश्चतुर्विधस्तस्य समाधानंस्वस्थता-निरुपद्रवत्वं समाधिस्तस्य करणं-जननम्-उत्पादनं तत् करोति येन ज्ञानदर्शनचरणानां वृद्धिर्भवति दिवसमनाबाधाश्च साधुसंयती, देशयतिपुरुषयोषितः । ज्ञानदर्शनचारित्रलक्षणाभिः पौरुषेयीभिः शक्तिभिर्मोक्षं साधयन्तीति साधवः । तेषां च वैयावृत्त्यकरणं व्यावृत्तः-तत्कार्यानुष्ठानप्रवणस्तस्य व्यावृत्तस्य भावो वैयावृत्यं, साधूनां मुमुक्षूणां प्रासुकाहारोपधिशय्यास्तथा भेषजविश्रामणादिषु पूर्वत्र च व्यावृत्तस्य मनोवाकायैः शुद्धः परिणामो वैयावृत्त्यमुच्यते । चशब्दः समुच्चये । अथवा सङ्घभट्टारकस्य समाध्युत्पादनं भावः-चित्तपरिणाम: परमार्थभावस्तस्य विशुद्धिः-निर्मलता । अथवा परमा चासौ भावविशुद्धिश्च तद्युक्ता भक्तिः स्वगुणदोषाकृष्ट समस्तसुरासुरपुरुषेश्वरेष्वचिन्त्यसामर्थ्येषु सन्मार्गोपदेशात् परमोपकारिषु प्रकृष्टमनःपरिणामशुद्धिपूर्विका भक्तिः सद्भूतातिशयोत्कीर्तनवन्दनसेवापुष्पधूपगन्धाभ्यर्चनायतनप्रतिमाप्रतिष्ठापनस्नपनविधिरूपा तीथेकरनामकमेण आस्रवः । पञ्चविधाचारानुष्ठानाद् यतिजना वरणीयोपदेशाद् वाऽऽचार्या धर्मोपदेशदीक्षाव्रतोपदेशदिग्याचका वा भवन्त्याचार्याः । अत्रैव श्रुतवाचनाचार्यत्वादुपाध्यायग्रहणम् । अङ्गानङ्गप्रकीर्णकाधनेकश्रुततदर्थोभययोगाद बहुश्रुताः । प्रोच्यन्तेऽनेन जीवादयः पदार्था इति प्रवचनम्-आगमः-श्रुतज्ञानम् । चशब्दः समु
शक्तितस्त्यागः' इति क-पाठः। २ 'निर्जरात्मा.' इति -पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org