________________
सूत्रं २३ ]
.स्त्रोपज्ञभाष्य टीकालङ्कृतम् सूत्रम्-दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनतिचारोऽभीक्ष्णं
ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी सङ्घसाधुममातीर्थकरनाम- धिवैयावृत्त्यकरणमहंदाचार्यबहुश्रुतप्रवचनभक्तिरावशकर्मण आनवाः कापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थ
कृत्त्वस्य ॥ ६-२३ ॥ . भा०-परमप्रकृष्टा दर्शनविशुद्धिः । विनयसम्पन्नता च । शीलवतेष्वात्य. न्तिको भृशमप्रमादोऽनतिचारः । अभीक्ष्णं ज्ञानोपयोगः ।
टी-परमप्रकृष्टा दर्शनविशुद्धिरित्यादि भाष्यम् । परममित्यतिशयेन सुष्ठ प्रकृष्टाप्रकर्षपर्यन्तवर्तिनी परित्यक्तशङ्कादिदोषा । शङ्कादयश्च वक्ष्यमाणाः (अ० ७, सू०१८)सम्यग्दर्शनमलाः। का पुनरसौ परमप्रकृष्टत्याह-दर्शनविशुद्धिरिति । " तत्त्वार्थश्रद्वान सम्यग्दर्शनं" (अ० १, मू०२) उक्तलक्षणविधानं दृष्टिः-दर्शनं तत्त्वविषया रुचिः-प्रीतिः जीवादिषु प्रत्यया. वधारणं तस्य दर्शनस्य नाना(वि)शुद्धिः-निर्मलता यथा नाना चित्रं विचित्रमिति, क्षायोपशमिकौपशमिकक्षायिकाणां सम्यग्दर्शनानां यथास्वं नाना शुद्धिर्विशुद्धिस्तीर्थकरनामकर्मण आस्रवः। विनयसम्पन्नता चेति । विनीयतेऽनेनाष्टप्रकारं कर्मेति विनयः । स च ज्ञानदर्शनचारित्रोपचाविनयस्य भेदप्रभेदा: रभ
रभेदेन चतुर्धा । तत्र ज्ञानविनयः कालविनयबहुमानोपधानादिः । दर्श
""नविनयो निःशङ्कनिःकाशादिभेदः। चरणविनयः समितिगुप्तिप्रधानः । उपचारविनयोऽभ्युत्थानासनप्रदानाञ्जलिप्रग्रहादिभेदः । एवंविधेन विनयपरिणामेन परिणतः कर्ता विनयसम्पन्न उच्यते, तद्भावो विनय सम्पन्नता । सा च तीर्थकरनामकर्मण आस्रवः । चशब्दः समुच्चयार्थः । तथा शीलवतेष्वात्यन्तिको भृशमप्रमादोऽनतिचारः । शीलमुत्तरगुणाः पिण्डविशुद्धिसमितिभावना[दयः] प्रतिमाभिग्रहलक्षणा मुमुक्षोः समाधिहेतुत्वात् शीलशब्दाभिधेयाः । व्रतग्रहणात् पञ्च महाव्रतानि रजनीभक्तविरतिपर्यवसानान्याक्षिप्तानि । शीलानि च व्रतानि च शीलवतानि । तेष्विति तद्विषयः । आत्यन्तिक:-अत्यन्तभवः संयमः प्रतिपत्तिकालादारभ्य यावदायुषः क्षयस्तावद विश्रान्त्या भवत्यात्यन्तिकोऽप्रमादः सम्बध्यः । भृशमिति प्रकर्षवचनः प्रकृष्टोऽप्रमादो भृशमप्रमादः। विकटेन्द्रिय विकथा-कषाय-निद्रालक्षणः पञ्चधा प्रमादः। अनेन ह्याविष्टो जीवः कार्याकार्यविमुखत्वादाधाकर्मादि प्राणातिपातादि वा परिहर्तुमक्षमो भवति । न प्रमादोऽप्रमादः । प्रमादपरिवर्जनमप्रमत्तता । अनतिचार उच्यते-अतिचरणमतिचारः-स्वकीयागमातिक्रमः । नाति चारोऽनति वारः । उत्सर्गापवादात्मकसर्वज्ञप्रणीतसिद्धान्तानुसारितया शीलव्रतविषयमनुष्ठानमित्यर्थः । एतच्च तीर्थकरनामकर्मण आस्रवः । अभीक्ष्णं ज्ञानोपयोग इति । अभीक्ष्णं मुहुर्मुहुः-प्रतिक्षणं ज्ञानं-द्वादशाङ्गंप्रवचनं प्रदीपाशप्रासादप्लवस्थानीयं तत्रोपयोगः-प्रणिधानम् । सूत्रार्थोभयविषय आत्मनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org