SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अशुभनाम्न आस्त्रवाः तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ६ टी०-कायवाङ्मनोयोगवक्रतेत्यादिना । कायादयः कृतद्वन्द्वास्तेषां वक्रताकायादिगतो मायाव्यवहारः । सम्यक प्रतिपत्तौ तद्विपरीतप्रतिज्ञापनव्यापारो विसंवादनमशुभनामकर्मण आस्रवः । कायस्य तावत् कुब्जवामनविक(क)ष्टाङ्गप्रत्यङ्गावयवाक्षिनिकोचननासाभङ्गमलव्याधिविदूषकस्त्रीपुरुषभृत्यभृतकस्कन्दरुद्रराजर्षिविशेषावतारैरेसद्भावोद्भावनं वक्रता । वाग्वक्रता यथा लाटः स्वभाववाग्विषयोपरतभावः गौडमालवार्णवविषयवासिनामायोणामनार्याणां च तद्भावो विडम्बनापरता । मनोवक्रताऽन्यदेव मनसि व्यवस्थाप्य लोकपतिपू. जासत्काराद्याजिहीषों बिभ्राणोऽन्यद् वाचा समाचरत्यन्यत् कायेन चेष्टते। एवं स्वविषयैव योगवक्रता। विसंवादनं तु परविषयम् । तच्च विसंवादनं निर्दिदिक्षितस्यार्थस्यावस्थितस्वभावस्यान्यथाकरणं पितापुत्रयोर्वा प्रीतिभाजोः परस्परं प्रीतिभेदकरणं वा विसंवादनम् । एवमेते कायादिविकल्पा नान्नोऽशुभस्यास्रवा भवन्ति । अनुक्तसमुच्चयार्थो वा चशब्दः । मिथ्यादर्शनमायाप्रयोगपिशुनास्थिरचित्तताकूटमानतुलाकरणसुवर्णादिप्रतिरूपकत्वानुष्ठानकूटसाक्ष्यदानाङ्गोपाङ्गच्यावनवणेगन्धरसस्पर्शाद्यन्यथापादनयन्त्रपञ्जरक्रियानिकृतिभूयिष्ठतापरनिन्दात्म - प्रशंसामारणानृतवचनपरद्रव्यादानमहारम्भपरिग्रहोज्ज्वलवेषरूपमदपरुषा| सभ्यप्रलापाकोशमौखर्यसौभाग्योपघातवशीकरणप्रयोगपरकुतूहलोत्पाद नालङ्कारदानचैत्यव्यपदेशगन्धमाल्यधूपादिचार्यविडम्बनोपहासेष्टकापाकदावामिप्रयोगप्रतिमायतनप्रतिश्रयारामोद्यान विनाशनतीव्रकषायपापकर्मोपजीवनादीनि चाशुभस्य नाम्न आस्रवा इति ॥ २१ ॥ अथ शुभनामकर्मणः क आस्रव इत्युच्यते सूत्रम्-विपरीतं शुभस्य ॥ ६-२२ ॥ भा०-एतदुभयं विपरीतं शुभस्य नाम्न आस्रवो भवतीति ॥ २२ ॥ किञ्चान्यत् टी०–विपरीतमिति । एतदेवोभयमनन्तरसूत्रोक्तमास्रवद्वयं विपरीतं सदवक्रता योगानां सम्यक् प्रयोग आजैवयुजस्त्वयं, अविसंवादनं वाऽविप्रलम्भनम्-अविप्रतारणं परस्परविपरीतग्रहणवदेव । चशब्दः समुचितौ। वैपरीत्यग्रहणमपि धार्मिकदर्शनसम्भ्रमसंसारभीरुताप्रमादवजेनसद्भावापेणासम्यक्त्वाजेवादयः शुभस्य नामकमेणो मनुष्यगत्यादेः सप्त त्रिंशदुदयस्यास्रवा भवन्तीति ॥ २२ ॥ किञ्चान्यदित्यनेन सम्बन्धमाचष्टे । अन्यच्चानुक्तं विशेषेण तीर्थकरनाम, सामान्येन शुभनामकर्मण आस्रवे प्रतिपादितेऽप्यचिन्त्यानुपमशक्तिप्रभावस्य त्रिप्रकारातिशयविशेषत्रैलोक्यविभूतिविजयिनस्तीर्थकरनाम्न इमे आस्रवा वेदितव्याः१रसद्भावनं' इति ङ-पाठः । २ 'गोपिनास्थिर०' इति ख-ग-पाठः । ३' प्रहाद् जलवेषः' इति -पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy