________________
सूत्रं २३ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
३७
ये । एतेषु परमा भावविशुद्धा भक्तिर्यथासम्भवमभिगमनवन्दनपर्युपासन यथाविहितक्रमपूर्वकाध्ययनश्रवणश्रद्धानलक्षणा तीर्थकरनामकर्मण आस्रवः ।
भा० - सामायिकादीनामावश्यकानां भावतोऽनुष्ठानस्या परिहाणिः । सम्यग्दर्शनादेर्मोक्षमार्गस्य निहत्य मानं करणोपदेशाभ्यां प्रभावना ।
टी० -- सामायिकादीनामित्यादि । अरक्तद्विष्टः समः तस्य आयो - लाभः - चरणदर्शनप्राप्तिः स प्रयोजनमस्येति सामायिकं सकलसावद्यविरतिलक्षणं प्रतिक्रमणकादि (१) तदादिर्येषां आवश्यकानां (चतुर्विंशतिस्तवादीनां) तानि सामायिकादीनि तेषां सामायिका दीनां आवश्यकानां अवश्यमहोरात्राभ्यन्तरे कर्तव्यान्यावश्यकानि - अवश्यतयाऽनुष्ठेयानि । तानि च सप्तदशविधानसंयम विषयव्यापाररूपत्वादने कैप्रकाराणि इच्छामिथ्यातथाकारादीनि तेषां भावतोऽनुष्ठानस्यापरिहाणिः । भावत इति तदुपयोगानन्यत्वकथनम्। अनुपयुक्तस्य हि सर्वक्रियानुष्ठानं द्रव्यमात्रत्वाच्छुमबन्ध निर्जराफलशून्यमेव प्रवचने च घुष्यते ततः सद्भावावहितचेतसो यदनुष्ठान करणं तस्यापरिहाणिर्यथाविहित काला सेवनमन्युनानतिरिक्ततयेत्येवमेषा आवश्यकापरिहाणिस्तीर्थ करनाम - कर्मण आस्रवो भवति । सम्यग्दर्शनेत्यादि । तच्चार्थश्रद्धानलक्षणं सम्यग्दर्शनं सकलगुणाधारस्तदादिर्यस्यासौ तदादिस्तस्य सम्यग्दर्शनादेर्मोक्षमार्गस्य सकलकर्मक्षयोत्तरकालमात्मनः स्वात्मन्यवस्थानं मोक्षस्तस्य मार्गः - पन्थाः प्राप्त्युपायो ज्ञानक्रियालक्षणस्तस्य प्रभावना - प्रख्यापनं - प्रकाशनं । केन प्रकारेणेत्याह--निहत्य मानं करणोपदेशाभ्यामिति । मानः - अहङ्कारः । स च जात्यादिस्थानोद्भूतः श्रेयो विघातकारी, यथाऽऽह (प्रशमरत्यां श्लो० २७) - " श्रुतशीलविनयसं - दूषणस्य धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं, मुहूर्तमपि पण्डितो दद्यात् ॥ १ ॥”
तमेवंविधं मानं न्यक्कृत्य करणं - स्वयमनुष्ठानं श्रदधतः कालविनयबहुमानाद्यासेवनं मूलोत्तरगुणप्रपञ्चानुष्ठानं चेति । उपदेशोऽन्यस्मै प्रतिपादनं बहुविधविद्वज्जनसमितिषु स्याद्वादादिन्यायावष्टम्भेन प्रसभमपहृत्य प्रतिभामेकान्तवादिनामर्हत्प्रणीतस्यानवद्यस्य सर्वतोभद्रस्य मार्गस्यैकान्तिकात्यन्तिकनिरतिशयाबाध कल्याणफलस्योच्चैः प्रकाशनं प्रभावना । सा खल्वेषा तीर्थङ्करनामकर्मण आस्रवः ।
भा०- अर्हच्छासनानुष्ठायिनां श्रुतधराणां बालवृद्धतपस्विशैक्षेकग्लानादीनां च सङ्ग्रहोपग्रहानुग्रहकारित्वं प्रवचनवत्सलत्वमिति । एते गुणाः समस्ता व्यस्ता वा तीर्थकर नान्न आस्रवा भवन्तीति ॥ २३ ॥
टी० – अर्हदित्यादि । वन्दननमस्कारपूजासत्कारार्हाः अर्हन्तस्तेषां शासनम् - उपदेश आगमाख्यस्तदनुष्ठायिनाम्-आगमविहित क्रियानुष्ठायिनां श्रुतधराणामित्यनेन स्वयमविगतज्ञानानामिति प्रतिप्रादयति, परप्रत्ययानुष्ठायित्वं निषेधयति, अधीतप्रवचनार्थो विदितो
१ ०क्षग्लानादीनां' इति घ-पाठः ।
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org