________________
सूत्रे १९-२०] . स्वोपज्ञभाष्य-टीकालङ्कृतम् किमेत एवास्रवा नारकादीनामप्यन्येऽपि सन्ति । सन्तीत्याह
सूत्रम्-निःशीलवतत्वं सर्वेषाम् ॥६-१९ ॥ भा०-निःशीलवतत्वं च सर्वेषां नारकतैर्यग्योनमानुषाणामायुषामास्रवो भवति । यथोक्तानि च ॥ १९ ॥
टी-निर अभाववचनः, शीलम्-उत्तरगुणसम्पत् तदभावान्निःशीलः,प्राणातिपातादिनिवृत्तिव॑तानि तद्रहितो निव्रतः । भावप्रत्ययः प्रत्येकमभिसम्बध्यते । निःशीलत्वं निर्वतस्वं च सर्वेषां नारकतैर्यग्योनमानुषाणां यदायुस्तस्यास्रवो भवति । चशब्दात् पूर्वोक्तहेतुकलापोऽपेक्ष्यते । एतदेव भाष्येण स्फुटयति-नि:शीलवतत्वं चेत्यादिना । शीलवतयोभोवः शीलवतत्वम्-आत्मनस्तथाविधः परिणामः तद्भावो निःशीलवतत्वम् । सर्वेषामित्यविशेषप्रसङ्गेऽभिहितान्येव सम्बध्नन्नाह । नारकतैर्यग्योनिमानुषाणामायुषामानवो भवति । नारकादित्रयायुषामेष चास्रवः, यथोक्तानि चेति चशब्दं व्याचष्टे-यथा यस्य नारकादिव्यायुषस्य पदम् (?) उक्तानि बढूवारम्भपरिग्रहा मायाऽल्पारम्भपरिग्रहस्वभावमार्दवार्जवकारणानीति ॥ १९॥
अथ दैवमप्यायुः सर्वशब्देन किं नाक्षिप्यते ? । भोगभूमिजास्तु मनुजा योषितो वा मिथ्यादृष्टयो निःशीलव्रता अपि मृत्वा देवेषूत्पद्यन्ते, न खलु तेषामणुव्रतमहाव्रतबालतपोऽकामनिर्जरासम्यग्दर्शनानां कश्चिदेवायुषो हेतुरस्ति, अथ च मरणानन्तरं देवभूयमासादयन्तीत्यवश्यंतया कश्चिद् देवायुष आस्रवो वाच्यः । स च नान्यो निःशीलवतत्वादिति । ते हि शीलव्रतरहिताः प्राणातिपातादिषु न प्रवृत्ता न निवृत्तास्ततो मध्यवर्तिना सूत्रेणावश्यं देवायुरपेक्ष्यमेव, एवंविधं च भाष्यं नास्ति, अतो विदुषोपकल्पव्याख्या यथागमं कार्येति ॥
भा०-अथ देवस्यायुषः क आस्रव इति ? । अत्रोच्यते
टी०-अथेत्यादि सम्बन्धग्रन्थः। आस्रवोऽधिकृतसूत्रनारकतैर्यग्योनमानुषायुषामास्रवोऽभिहितः, अनन्तरं दैवस्यायुषो वाच्यः, तत्रानन्तर्यमथशब्देन प्रतिपादयति-देवानामिदं देवमायुस्तस्य क आस्रवः १ इतिकरणः प्रश्नपरिसमाप्तेरवद्योतकः । अत्र-पृष्टेऽभिधीयतेसूत्रम्-सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि
दैवस्य ॥ ६-२०॥ भा०–संयमो विरतिव्रतमित्यनान्तरम् । हिंसानृतस्तेयात्रापरिग्रहेन्यो विरतिव्रतमिति वक्ष्यते (अ० ७, सू० १)॥
१ 'स्पध्यति' इति अ-पाठः । २ 'प्रदं ' इति क-पाठः। ३ . •पयुज्य व्याख्या 'विपाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org