________________
तवार्थाधिगमसूत्रम्
[अध्यायः ६ वतो बहुलीकृता नारकायुष आस्रवाः । एत एव प्रपञ्च्यमाना भेदमने प्रतिपद्यन्ते, मिथ्यादृष्टया श्रेष्ठाचारता गिरिराजिशैलस्तम्भकीचकडङ्गग्रन्थिकृमिरागसदृशकोपादिकषायता परपरितापकरप्रणिधानवधबन्धनाभिनिवेशानृतवचनप्रस्वादनाविरताविरतमैथुनोपसेवास्थिरवैरावशेन्द्रियनिरनुग्रहस्वाभाव्यकृष्णलेश्यापरिणामरौद्रध्यानान्यास्रवप्रपञ्चो नारकस्यायुषः ॥ १६ ॥ उक्तो नारकस्यायुषो हेतुस्तत्समनन्तरं तैर्यग्योन्यायुष उच्यते
सूत्रम्-माया तैर्यग्योनस्य ॥६-१७ ॥ भा०–माया तैर्यग्योनस्यायुष आस्रवो भवति ॥ १७ ॥
टी०-माया शाठयं वक्रता मनोवाकायिकी च कैकुणग्रन्थितुल्या । तिर्यश्च:पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाः नारकमनुष्यदेववर्जास्तेषां योनिस्तिर्यग्योनिः, योनिः-उत्पत्तिस्थानं,तत्र भवं तैर्यग्योनमायुस्तस्यास्रवो जायते । माया मिथ्यात्वावष्टम्भाधमेदेशनारम्भपरिग्रहकूटकर्मनीलकापोतलेश्यापरिणामार्तध्यानोन्मार्गप्रज्ञापनामार्गप्रणाशसातिचारव्रतशीलताच वसुधाराजिसदृशकोपायल्पारम्भसहाया, प्राधान्यख्यापनायैकाकिन्याः खल्लु मायायाः कृतं ग्रहणं सूत्रकारेण, स्पष्टीकृतमेवमाचक्षाणेनेति ॥१७॥
उक्तस्तैर्यग्योनायुष आस्रवः । अथ मनुजायुष आस्रवः क इत्यत्रोच्यतेसूत्रम्-अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य ॥६-१८॥
भा०-अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्यायुष आस्रवो भवति ॥ १८॥
री-आरम्भपरिग्रहावुक्तलक्षणौ । अल्पः-स्तोकः । अल्पारम्भपरिग्रहयोर्भावः अल्पारम्भपरिग्रहत्वम् । आत्मनो मन्दपरिणामता आरम्भे परिग्रहे च, स्वभावः-सहजो धर्मः सहज मादेवं न तु कृत्रिमम् । प्रकृत्यैव जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतस्थानेषु गर्वरहितः मृदोर्भावः मार्दवं--मृदुता । तथा सहजमार्जवमृजो वो यथावस्थितमनोवाकायविषयवक्रतात्यागः । चशब्दः कारणान्तरसमुच्चितौ । एतदेव भाष्येण स्पष्टयति-अल्पारम्भपरिग्रहत्वमित्यादिना । अल्पारम्भत्वम्-अल्पप्राणातिपाताधनुष्ठायित्वम् , अल्पपरिग्रहत्वम्-अल्पेच्छता, शब्दादिविषया वाऽल्परागता, स्वभावमादेवं स्वभावजैव भद्रता, स्वभावाजे प्रकृत्यैवर्जुता । चशब्दान्मिथ्यादर्शनातिविनीतत्वं, सुखप्रज्ञापनीयता वालुकाराजिसदृशरोपता स्वागताधभिलाषिता स्वभावमधुरता लोकयात्रानुग्रहौदासीन्यगुरुदेवताभिपूजा संविभागशीलता कापोतलेश्यापरिणामः धर्मध्यानध्यायिता मध्यमपरिणामता च मनुष्यस्यायुष आस्रवो भवतीति ॥१८॥ .... १' दृष्टयाश्लेष्टावारता' इति ग-पाठः । २ 'कृणग्गं (8) विकल्पा' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org