________________
सूत्र १६] . स्वोपज्ञमाष्य-टीकालङ्कृतम् वेदनीयस्यास्रवः, स्वशोकोत्पादशोचनपरदुःखनिष्कारणशोकमूकताभिनन्दिता शोकवेदनीयस्य, विचित्रपरिक्रीडनपरचित्तावर्जनबहुविधरमणपीडाभावदेशाद्यौत्सुक्यप्रीतिसञ्जननादीनि रतिवेदनीयस्य, परराजप्रादुर्भावनरतिविनाशपापशीलताकुशलक्रियाप्रोत्साहनास्तेयादयस्त्वरतिवेदनीयस्य, स्वयंभयपरिणामभयोत्पादननिर्दयत्वत्रासनादीनि भयस्य, सद्धर्मप्रसक्तचतुर्वर्णकुशलक्रियाचारप्रवणजुगुप्सापरिवादनशीलत्वादयो जुगुप्साया आस्रवा भवन्ति ॥
कषायोदयादित्यादि भाष्यम् । कषः-संसारः कर्म वा तस्य आयास्तेषामुदयो-विपाकस्तसात् कारणभूताद् यस्तीत्रः-प्रकर्षप्राप्त आत्मनो-भवितुः परिणामश्चारित्रमोहस्यास्रवो भवति । तद्यथा-परमधार्मिकाणां साधूनां गर्हणया धर्माभिमुखानां च विघ्नकारितया देशविरतिजनान्तरायकरणेन मधुमद्यमांसाविरतिगुणदर्शनेन चारित्रगुणसन्दूषणेनाचारिप्रदर्शनेन परस्य कषायनोकषायोदीरणेन चरणगुणोपघातकारिकषायनोकषायवेदनीयं चारित्रमोहं बनातीति ॥ १५॥
__ अथायुश्चतुष्टयस्य यथायथं क आस्रवक्रम इति पृष्टे ब्रूमः-चतुर्णामाद्यस्य नियतकालपाकस्य
सूत्रम्-बहारम्भपरिग्रहत्वं च नारकस्यायुषः ॥६-१६ ॥ भा०-बहारम्भता बहुपरिग्रहता च नारकस्यायुष आस्रवो भवति ॥१६॥
टी-बहुः-विपुलः-प्रभूतः आरम्भणमारम्भः-प्राणिप्राणव्यपरोपणं अनवरतखण्डनीपेषणीचुल्लयुदकुम्भप्रमार्जनीव्यापारो वा । बहुश्वासावारम्भश्च बहारम्भः। परिग्रहणं परिग्रहः-मूछों-गाये-ममत्वमान्तरेषु शरीरादिषु बाह्येषु च वस्तुषु क्षेत्रवास्तुहिरण्यसुवर्णादिषु स्नेहः । बहुश्चासौ परिग्रहश्च बहुपरिग्रहः तयोर्बहारम्भपरिग्रहयोर्भावो बहारम्भपरिग्रहत्वम् तथा परिणाम आत्मनः । चशब्दः समुचितौ। तामेव भाष्येण दर्शयति । भावप्रत्ययं च प्रत्येकमभिसम्बध्नाति-बहारम्भता बहुपरिग्रहता चेति । नरकाः पापकर्मणां सत्त्वानामधिवासा अनादिकालप्रसिद्धास्तेषु भवा नारकास्तेषां नारकाणां यदायुः-जीवनं तस्यास्रवो भवति। तेषुनारकेषु वा भवे यदायुरिति सम्बन्धः । अपरे ब्रुवते-बहारम्भाः परिग्रहा यस्यासौ बहारम्भपरिग्रहस्तद्भावो बहारम्भपरिग्रहत्वम् । चशब्दादागमोक्तं च कार
णद्वयमभिसम्बभाति । कुणपाहाराभ्यवहारित्वमसकृत्पञ्चेन्द्रियसत्त्वबहारम्भपरिग्रहताया व्यापादश्चेत्यस्मिन् पक्षे भाष्यं न सम्यग् गमितं स्यात् । अपरे व्याचव्याख्यान्तरम् क्षते-बहारम्भपरिग्रहत्वं चशब्दात् कषायोदयात् तीव्रपरिणामश्चानु
कृष्यते । एवमेव बहारम्भपरिग्रहकुणपाहारपश्चेन्द्रियवधा आसेविता भा१ 'भाभवा इति' इति -पाठः । २ — सम्बध्यते' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org