SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ २८ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ६ सामान्येन वा सञ्चस्यावर्गख्यापनम् । काकशृगालसारमेयानामपि समुदायः सङ्घ एवोच्यते । तेन सङ्घोऽगौरवास्पदम् । यच्चाभिधीयते-तीर्थकरानन्तरत्वात् सङ्घः सपर्याहस्तदपि स्वम- . नीषापरिकल्पनमात्रमित्याद्यवर्णोद्भावनम् । तथा पञ्चमहाव्रतसाधनस्य धर्मस्यावर्णभाषणं, पञ्चसंख्यापरिच्छिन्नानि महान्ति व्रतान्यणुव्रतापेक्षया जायन्ते तानि साधनमस्य धर्मस्य पञ्चमहाव्रतसाधनः, मनोवाकायैः कृतकारितानुमतिभिश्व प्राणिवधादिनिवृत्तयो महाव्रतानि, रजनिभोजनाधाकर्माचशेपोत्तरगुणाक्षेपो महाव्रतैरेव, अतः क्षमादेर्दशलक्षणकस्य धर्मस्यावर्णवादो दर्शनमोहस्यास्रवः, न पशुविशसनादेधाभासस्य, मायासुनुप्रणीतस्य चारम्भकस्य । कः पुनस्तस्यापवादः अभ्युदयापवर्गहेतुर्धर्मो न प्रत्यक्षादिना प्रमाणेन विषयीक्रियते । ने चाऽप्रमाणकोऽस्तीति वक्तुं पार्यते । न च पुद्गला धर्मशब्दवाच्याः पुद्गलत्वादेव । नाप्यात्मपरिणामो धर्मः आत्मशब्दपरिणामवाच्यत्वात् क्रोधादिपरिणामवदित्याद्यवर्णभाषणम् । चतुर्विधानां च देवानामवर्णवादः। चतस्रो विधा येषां ते चतुर्विधाः-भवनपति-व्यन्तर-ज्योतिषिक-वैमानिकाः। चशब्दः समुच्चयार्थः । तेषां चावर्णवादो दर्शनमोहस्यास्रवः । परस्परप्रवीचाराः खलु देवाः षण्ढवत् । अपरे बलवन्तोऽल्पबलं देवमप्यभियुज्य मैथुनमासेवन्ते देवानामवर्णवादः स्तब्धलोचनपुटास्तथाऽत्यन्तासद्भूतदोषप्रख्यापनशुक्रशोणितबल्युपहारा शिनो देवाः । अहल्यायै जार इन्द्रः कृतभगसहस्रः छात्रैर्षित इत्याद्यशिष्टव्यवहारावघोषणं देवानामवर्णवादः । इतिशब्देनाद्यर्थेन तीव्रमिथ्यात्वपरिणामोन्मार्गदेशनधार्मिकजनतासंदूषणसर्वत्रसिद्धदेवानथोभिनिवेशासमीक्षितकारितासंयतपूजाप्रयोगा दर्शनमोहस्य संसारपरिवृद्धिमूलनिमित्तस्यानन्तसंसारानुबन्धिनो मिथ्यात्वस्यास्रवा द्रष्टव्याः ॥ १४ ॥ अथ चारित्रमोहनीयस्य क आस्रव इत्युच्यतेसूत्रम्-कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्य ॥ ६-१५॥ भा०-कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्यात्रवो भवति॥१५॥ टी०-कषायाः-कोपादयः तेषामुदितिः उदयः स निमित्तत्वेनापदिश्यते। अस्य कोपादेः कषायस्य तीवाः-प्रकृष्टाः परिणामा-आत्मनोऽवस्थाविशेषाः शब्दादिविषयेषु गायमीलु त्वमनृतवादित्वं वक्रता परदाररतिप्रियता स्त्रीवेदबन्धहेतवः, अजुसमाचारता मदक्रोधकषायादिना स्वदाररतिप्रियता अनीर्ष्यालुत्वं पुरुषवेदब न्धहेतवः, तीव्रक्रोधादिना पशूनां वधक्षणनमुण्डनरतित्वं स्त्रीपुरुषेध्वनङ्गसेवनशीलता शीलवतगुणधारिणः पाषण्डयोषित्सव्यभिचारकारिता तीव्र विषयानुबन्धिता च नपुंसकबन्धहेतवः, उत्प्रासनदीनाभिलाषिताकन्दर्पोपहासनबहुप्रलापहासशीलता हास्य नोकषा १'यद्वाऽभि. ' इति क-पाठः। 'अन्यकोपादेः' इति -पाठः । २' तथा ' इति -पाठः। ३ स्नात्रैर्दूषित' इति क-ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy