________________
स्वोपज्ञभाष्य-टीकालङ्कृतम्
सूत्रं १४ ]
२७
सूत्रम् — केवलिश्रुतसङ्घधर्मदेवावर्णवादी दर्शनमोहस्य ॥ ६-१४ ॥
भा०—भगवतां परमर्षीणां केवलिनामर्हत्प्रोक्तस्य च साङ्गोदर्शनमोहस्यास्त्रवाः पाङ्गस्य श्रुतस्य चातुर्वर्णस्य सङ्घस्य पञ्चमहाव्रत साधनस्य धर्मस्य चतुर्विधानां च देवानामवर्णवादो दर्शनमोहस्यास्रवा
इति ॥ १४ ॥
--
टी० - भगवतामित्यादि भाष्यम् । षण्णामर्थादीनां भगाभिधानात् तद्योगाद् भगवन्तः तेषां भगवतामिति । अर्थादयो नृपैरपि सम्भवन्तीति तद् व्यवच्छेदायाह - परमर्षी - णामिति । प्रकृष्टा ऋषयः सम्यग्दर्शनज्ञानाचरणसम्पन्नाः ते चाकेवलिनोऽपि भवन्तीति, अतः केवलिनामित्याह । सकलज्ञानावरणक्षयसमुद्भूतः समस्तज्ञेय विषयोऽवबोधः साक्षात्परिच्छेदी चेतना पर्यायः केवलं तल्लाभात् केव लिनस्तेषामवर्णः रागद्वेषमोहसमावेशादसद्भूतदोषोद्भावनं सत्यवाक्प्रयोगो वा निन्दाप्रख्यापनं वा वदनं वा दोषभाषणमवर्णस्य केवलिनोऽधर्णवादः वादोऽवर्णवादः । तद्यथा - दिगम्बरत्वाद् विगतत्रपाः क्रमोपयोगभाजः समवसरणभूमाव काय भूम्यारम्भानुमोदिनः सर्वोपायनिपुणा अपि दुष्करदुरुपचारमा र्गोपदर्शिन इत्याद्यवर्णोद्भासनम् | तत्त्वार्थश्रद्धानलक्षणं दर्शनं तत् मोहयति- आच्छादयतीति दर्शनमोहस्तस्यास्रवो भवति, मिथ्यात्वादेरित्यर्थः । आर्हन्त्यनामकर्मोदयादर्हन्तःतीर्थकरास्तैः प्रोक्तं - प्रकर्षेणोपदिष्टं अविपरीतं यथावस्थितज्ञेयानुसारि श्रुतम् । कारणे कार्योपचारं कृत्वा प्रोक्तमित्युक्तम् । चशब्दः समुच्चये । अङ्गानि द्वादशाचारादीनि दृष्टिवादान्तानि उपाङ्गान्योपपातिकप्रभृतीन्यङ्गार्थानुवादीनि । सहाङ्गोपाङ्गैर्वर्तत इति साङ्गोपाङ्गम् । तस्य च श्रुतस्य प्रवचनस्यावर्णप्रख्यापनं अविदग्धप्राकृतभाषानिबद्धं श्रुतस्यावर्णवादः व्रतकायप्रायश्चित्तप्रमादोपदेश पुनरुक्तताबहुलं कुत्सितापवादप्रायमित्येवासनं श्रुतज्ञानस्येति । चत्वारो वर्णाः साधुसंयती (साध्धी)श्रावक श्राविकाख्याः । वर्ण्यन्त इति वर्णा- भेदास्तेषु चतुर्षु वर्णेषु भवश्चातुर्वर्गः सङ्घोगणः । अथवा सम्यक्त्व-ज्ञान-संवर- तपांसि चत्वारो वर्णा- गुणास्तद्भवश्चातुर्वर्णः, चतुर्णां वर्णातामयं चातुर्वर्णः सङ्घः, न तु सुगतशिष्याणां भौतानां वा । तस्य चतुर्विधस्य सङ्घस्यावर्णः । साधवस्तावत् सचित्ताद्याभवद्व्यवहारपरायणाः परिपेलवचासंयतादीनामवर्णवादः ह्यशौचाचाराः जन्मान्तरकृतकर्मोदयजनित केशोल्ड ल्लुञ्च नातापनदुःखानुभविनः कलहकारिणोऽसहिष्णवः प्रागदत्तदानाः भूयोऽपि दुःखिता एव भविष्यन्तीत्यवर्णोद्भावनम् । एवमेव च संयतीनामवर्ण भाषणम् । तथा श्रावक श्राविकाणामपि निन्दनमनेकप्रकारम् - न स्नानं धर्मार्थमेषाम्, न च द्विजातिभ्यो दानम्, न प्रपादिकरणम्, हरिकेशकल्पाः खल्वेते, गोशृङ्गमेषां गेदाङ्गगद्वारि निखायतामित्याद्यवर्णप्रकाशनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org