________________
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ६ योगः अनिवृत्तानां वा कार्पटिकादीनां गृहस्थलिङ्गभाजामाचारोऽगारशब्दवाच्यः, तद्योगादगारिणस्तेष्वगारिषु, गृहस्थेष्वित्यर्थः । तद्विपरीता अनगाराः कुतश्चित् पापस्थानानिवृत्ताः कुतश्चिन्न निवृत्ताः सर्वे पाखण्डिनः श्रावकाः सर्वारम्भव्यावृत्तिभाजो वा यतयस्तेषु चानगारिषु प्राणातिपातादिनिवृत्तिव्रतसम्पन्नेषु अनुकम्पाविशेषः-प्रकृष्टानुकम्पा अतिशयवती । यत् तेषु दानं भक्तपानवस्त्रपात्राश्रयादेर्दीनानाथवनीयकादिषु अगारिष्वनगारेषु च, ज्ञानदेर्शनाचरणसम्पन्नेषु त्वेकान्तकर्मनिजराफलं च भवति । अथवाऽनुग्रहबुद्धयाऽऽीकृतचेतसः परपीडामात्मसंस्थामिव कुर्वतोऽनुकम्पनमनुकम्पा । स्वस्य परानुग्रहाभिप्रायेणातिसर्गो दानम् । रञ्जनाद् रागः-संज्वलनलोभादिकषायाः तत्सहवर्ती सरागः । संयमनं संयमः-प्राणिवधायुपरतिः । सरागस्य संयमः सरागसंयमः । मूलगुणोत्तरगुणसम्पल्लोमाधुभयभाज इतियावत् । संयमासंयमः स्थूलप्राणातिपातादिनिवृत्तिः अणुव्रतगुणवतशिक्षाव्रतविकल्पा। विषयानर्थनिवृत्तिमात्माभिप्रायेणाकुर्वतः पारतन्त्र्यादुपभोगादिनिरोधः अकामनिर्जरा, अकामस्य-अनिच्छतो निर्जरणं-पापपरिशाटः पुण्यपुद्गलोपचयश्च, परवशस्य चामरणमकामनिर्जरायुषः परिक्षयः । मिथ्याज्ञानोपरक्ताशया बालाः शिशव इव हिताहितप्राप्तिपरिहारविमुखाः तपो जलानलप्रेवेशेहिनीसाधनगिरिशिखरभृगुप्रपातादिलक्षणं तेन तादृशा तपसा बालानां योगो बालसम्बन्धित्वाद् वा तपोऽपि बालं तेन बालतपसा योगो बालतपोयोगः । अथवा बालं तपो येषां ते बालतपसः । लोकाभिमतनिरवद्यक्रियानुष्ठानं योगः । दण्डभावनिवृत्त्यर्थं योगाभिधानम् । धर्मप्रणिधानात् क्रोधनिवृत्तिर्मनोवाकायैः क्षान्तिः, क्रोधकषायोदयनिरोधः उदितस्य वा कथञ्चिद्वैफल्यापादनम् । क्षमा सहनं, क्षमेरुदितो दैवादिकस्य शान्तिः, अन्यस्य तु क्षमैव । लोभकषाय विशेषाणामुपरमः शौचम् । स हि कषायस्तृष्णालक्षण आन्तरो मलस्तत्प्रक्षालने शोचं, रक्तस्यात्मवाससः सन्तोषवारिणा विमलतापादनं, निरू
वाक्कायमनोऽकुशलप्रवृत्तेश्चरणं तपोऽनुष्ठायिनः प्रायो निर्जराफलम् , तदेकदेशानुष्ठायिनस्तु सद्वेद्यास्रवः । तथा द्रव्यशौचं स्नेहगन्धलेपापकर्षलक्षणं प्रासुकजलादिना क्रियमाणमास्रवः
सद्वेद्यस्य भूयसा जायते । इतिशब्दः प्रकारार्थ आद्यर्थो वा । धर्मानुरागः सद्वेद्यस्यान्येऽ
धमनिषेवणशीलवतपौषधोपवासरतितपोऽनुष्ठानबालवृद्धतपस्विग्लानवैयाप्यानवाः
वृत्त्यानुष्ठानधर्माचार्यमातृपितृभक्तिसिद्धचैत्यपूजाशुभपरिणामाश्च सवेद्यस्यास्रवा भवन्तीति ॥ १३ ॥
एवमभिधाय सदसत्प्रकारस्य वेदनीयकर्मण उपादानहेतूनधुना दर्शनचारित्रमोहभाजो मोहनीयस्य संसारपद्धतिलताबीजस्यात्मलाभहेतव उच्यन्ते
१दर्शनचरण' इति उ-पाठः । २ 'प्रवेशेऽमिनीसाधनगिरि०' इति उ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org