________________
२५
सूत्र १३ ]
. स्वोपज्ञभाष्य-टीकालङ्कृतम् टी०-दुःखं शोकस्ताप इत्यादि । तत्र दुःखयतीति दुःखं वंधलक्षणं विरोधिद्रव्या
न्तरोपनिपातादभिमतवियोगानिष्टश्रवणादसद्वद्योदयापन्नः पीडालक्षणः दुःखादीनां लक्षणानि परिणाम आत्मनो दुःखमित्यर्थः । अनुग्राहकस्नेहादिव्यवच्छेदे वैक्लव्य
विशेषः शोकः । अभिमतद्रव्यवियोगादिपारिभाब्यादाविलान्तःकरणस्य तीवानुशयपरिणामस्तापः । परितापसंयुक्ताश्रुनिपाताङ्गविकारप्रचुरविलापादिव्यक्तम् आक्रन्दनम् । प्राणिप्राणवियोजनं बंधः कशायभिघातश्च संक्लेशप्रवणः । स्वपरानुग्रहनाथनमनुकम्पाप्रायं परिदेवनम् । शोकादयस्तु सर्वे दुःखजातीया एव, तथापि पृथगभिधानमकारि सूत्रकारेण, तद्विषयासंख्येयत्वेऽपि कतिपयविशेषसम्बन्धेन तज्जात्याख्यानात् । इतिशब्द आद्यर्थे । आदिग्रहणाच निरनुकम्पत्वावाहनविहेठनदमनबन्धाङ्गोपाङ्गवेदनासंक्लेशजननतीवाशुभपरिणामप्राणिवधादयः परिगृह्यन्ते । आत्मा च परश्चोभयं च तेषु स्थितानि दुःखादीन्यात्मपरोभयस्थानि । तद् विवृणोति-आत्मस्थानीति । स्वात्मनि वर्तमानानि यथोक्तलक्षणानि दुःखादीनि सर्वज्ञप्रणीतागमनिरपेक्षाणि असद्वेद्यस्य कर्मण आस्रवा भवन्ति । विदेश्वेतनकर्मणो ग्रहणम् । असदिति वेद्यते यत् तदेतदसवेद्यम्, अप्रशस्तत्वात् । तथा परस्य क्रियमाणानि स्वात्मव्यतिरिक्तस्य चेतनावतः पदार्थस्योत्पाद्यमानानि । एतान्येव दुःखादीनि । स्वात्मपरयोरपि क्रियमाणान्यसवेद्यस्य कर्मण आनवा भवन्तीति पूर्व स्वात्मन एव दुःखायुत्पादयन्ति शस्त्रपाटना-ऽग्निप्रवेश-भृगुप्रपातादिना, परस्यैव वा शस्त्रादिना दुःखाद्युत्पादयन्तिउभयस्थानि तु अधमर्णसमवाये सत्युत्तमर्णस्य तनिरोधपरस्य भुजिक्रियानिवृत्तावुभयोः क्षुत्कृत एव दुःखादिः सम्भवति ॥ १२ ॥ एवमसद्वेद्यास्रवान् निरूप्य सद्वेद्यास्रवनिरूपणार्थमाह
भा०- सर्वभूतानुकम्पा अगारिष्वनगारिषु च व्रतिष्वनुकम्पाविशेषो दानं सरागसंयमः संयमासंयमः अकामनिर्जरा बालतपोयोगः क्षान्तिः शौचमिति सदेद्यस्यास्रवा भवन्ति ॥ १३ ॥ टी.-सर्वभूतानुकम्पेत्यादि द्वितीयसूत्रभाष्यम् । सर्वाणि च तानि भूतानि चेति
सर्वभूतानि, भवन्ति अभूवन भविष्यन्ति च (इति भूता ने ) पृथिव्यप्तेजोभाष्यगतशब्दानां
' वायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाख्यानि तेषु । अनुकम्पा या घृणेत्य व्याख्या
नर्थान्तरम् । अगारं-गेहं खण्डणीपेषगीचुल्लयुदकुम्भमार्जनीव्यापार१ बाधालक्षणं ' इति ङ-पाठः । २' दयापेक्षः' इति ङ-पाठः । ३ 'बन्धः' इति ङ-पाठः । ४ चेतन माचरतः' इति डर-पाठः । ५'तपो योगः' इत्यपि संभवति । ६ विचार्यताम्-" खण्डनी पेषणी चुली, जलकुम्भः प्रमार्जनी ।
पञ्च सूना गृहस्थस्य, तेन स्वर्ग न गच्छति ॥ १॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org