SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ६ टी-आस्रवो ज्ञानस्य ज्ञानवतामित्यादि भाष्यम् । उक्तलक्षण आस्रवस्तमभिसम्बनिन् प्रदोषादिना एकैकेनैकवचनात् । तमेवाह-आस्रव इति । कस्यास्रवः प्रदोषादिः किंविषयो वेति शङ्कायां साम्परायिकाष्टविधकर्मप्रस्तावात् प्रतिविशिष्टानुपूर्वीव्यवस्थातश्चाद्यप्रकृतिमेव सम्बध्नाति-ज्ञानस्येति । ज्ञानस्य सम्बन्धिनः प्रदोषादयो ज्ञानविषयास्तदावरणस्य कर्मण आस्रवा भवन्ति । ज्ञानं चेतना आत्मनः स्वरूपं इति । तत्प्रतिपिपादयिषयेदमाह-एतैर्हि ज्ञानावरणकर्म बध्यते । यसादेतैः करणभूतैःअध्यवसायविशेषैः प्रदोषादिभिरात्मना स्वपरिणामैः कर्म ज्ञानावरणाख्यं बध्यते उपादीयते गृह्यते तसादेव आस्रवा इति । एवं ज्ञानावरणास्रवानाख्याय तत्तुल्यत्वाद् दर्शनावरणस्यातिदेशं करोति-एवमेव दर्शनावरणस्येति । एवमेवेत्यनेनातिदेशं प्रतिपादयति, यथा ज्ञानावरणस्यास्रवाः प्रदोषादयस्तथा दर्शनावरणस्यापि कर्मण एत एवात्रवा बोद्धव्याः । दर्शनं चक्षुरचक्षुरवधिकेवलभेदम् । सामान्यमानोपयोगश्चेतनादिविशेषः, तस्यावरणं नवधा, निद्रादयोऽपि हि यथोक्तलक्षणाश्चक्षुर्दर्शनादिविघातकारित्वात् तदावरणम्, अत्राप्युपघात इति । इति . शब्देनाद्यार्थेनालस्यस्वपनशीलतानिद्रादरप्राणातिपातादयः परिगृह्यन्ते । दर्शनावरणीयकर्मण इतिशब्दस्तु ज्ञानदर्शनावरणयोरास्रवेयत्ताप्रदर्शनार्थः। एवमुक्तेन प्रका आस्रवाः रेण दर्शनस्य दर्शनवतां दर्शनसाधनानां च प्रदोषादय आलस्यादयश्च दर्शनावरणस्य आस्रवा भवन्तीति प्रतिपादितम् ॥ ११ ॥ इदानीमसद्वेद्यसद्वेद्ययोरास्रवाश्चिन्त्यन्ते, यथाऽनयोः कर्मप्रकृत्योर्नियमेनायमास्रवक' लापः। तद्यथा-दुःखशोकादिभिर्भूतत्रत्यनुकम्पादिभिश्च यथाक्रममसद्वेद्यसद्वेद्ययोरास्रवकलापोऽवगन्तव्यः सूत्रद्वयेन ... सूत्रम्-दुःखशोकतापाक्रन्दनवधपरिदेवनान्यासवेद्यस्यास्रवाः । त्मपरोभयस्थान्यसद्धेद्यस्य ॥ ६-१२॥ सूत्रम्-भूतव्रत्यनुकम्पा दानं सरागसंयमादि योगः असद्धेद्यस्यास्रवाः शान्तिः शौचमिति सदेद्यस्य ॥६-१३ ॥ टी०-दुःखादयः कृतद्वन्द्वाः षडप्यास्रवा भवन्त्यसद्वेदनीयस्य कर्मणः । भूतव्रत्यनुकम्पादयोऽपि पञ्चाविहितद्वन्द्वाः सद्भेदनीयस्य कर्मण आस्रवा द्रष्टव्याः । तत्र प्रथमसूत्रभाष्यम् भा०-दुःखं शोकः तापः आक्रन्दनं वधः परिदेवनमित्यात्मसंस्थानि परस्य क्रियमाणानि उभयोश्च क्रियमाणानि असदेद्यस्यास्रवा भवन्तीति ॥ १२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy