________________
सूत्र ११]
• स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-अत्राह-उक्तं भवता (अ०६, सू० ५) सकषायाकषाययोर्योगः साम्परायिकर्यापथयोरास्रव इति । साम्परायिकं चाष्टविघं वक्ष्यते (अ० ६, सू० २८)। तत् किं सर्वस्याविशिष्ट आस्रव आहोस्वित् प्रतिविशेषोऽस्तीति । अनोच्यते-सत्यपि योगत्वाविशेषे प्रकृति प्राप्यास्रवविशेषो भवति। तद्यथा____टी०-अत्राह-उक्तं भवतेत्यादिना सम्बन्धमाचष्टे । अत्र सामान्यास्रवविचारे भवतोक्तम् । किमुक्तमिति उक्तस्यानुवादं करोति-सकषायाकषाययोर्बन्धकयोर्योगःकायादिव्यापारो यथासंख्यं साम्परायिफेर्यापथयोः कर्मणोरास्रवो भवति । इतिशब्द एवशब्दार्थे । एवमुक्तं भवतेति । साम्परायिकं चाष्टविध ज्ञानावरणादिभेदेनाभिधास्यते कर्म जातिभेदेन । एवं सति फलभेददर्शनात् सन्देहबीजसम्भवः । तस्मात् प्रष्टव्यम्-किं सर्वस्य ज्ञानावरणादेरष्टविधस्यापि कस्यापि कायादियोगोऽविशिष्टः-सामान्यलक्षण आस्रव आहोस्वित् प्रतिविशेषो-भेदः कर्म प्रति कश्चिदस्तीति । इतिकरणं प्रश्नेयत्तां दर्शयति । अत्रोच्यते इत्याहाचार्यः । अस्ति भेद इति संगिरामहे । योगसामान्येनाभेदे भवत्यपि योगसामान्येनैकरूपपुद्गलग्रहणे सति वक्ष्यमाणास्त्रवविशेषैः कर्मजातेः फलभेदः, यथा आहारः कश्चिदेकरूपोऽपि जग्धः प्राप्य जठरं रस-रुधिर-मांस-मेदो-मज्जा-ऽस्थि-शुक्र-मलविशेषभावेन परिणमते, तथैकप्रयोगचितेऽस्य कर्मण आस्रवभेदसम्भवे सति अष्टधा परिणामः प्रकृति प्राप्येति । प्रकृतिः-स्वभावः । किञ्चित् कर्म ज्ञानावरणस्वभावं किञ्चिद् दर्शनावरणस्वभावं इत्येवमष्टविधमपि भिन्नस्वभावं वक्ष्यते, अतः प्रकृतिमाश्रित्य आस्रवभेदः। तद्यथेत्यनेन तथास्रवभेदं प्रति प्रकृति प्रत्यक्षीकरोति । नाप्यक्रमन्यस्तयोस्तावदाद्ययोः प्रकृत्योरास्रवभेदः। सूत्रम्-तत्सदोषनिवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शना
वरणयोः ॥ ६-११॥ टी०-प्रदोषादयः कृतद्वन्द्वा अपि तच्छब्देन सह विहितषष्ठीतत्पुरुषसमासाः सूत्रकृता निर्दिष्टाः। तयोः प्रदोषादय इति सामान्येनाभिनिवृत्ते समासे पश्चादिदमुच्यते-तयोरिति कयोः प्रदोषादय आस्रवा इत्याह-ज्ञानदर्शनावरणयोरिति । ज्ञानं च दर्शनं च ज्ञानदशेने, आवरणम्-आच्छादनं ज्ञानदर्शनावरणयोरिति । एनमेवार्थ भाष्येण स्पष्टयति
भा०-आस्रवो ज्ञानस्य ज्ञानवतां ज्ञानसाधनानां च प्रदोषो निह्नवो ज्ञानावरणीयकर्मण मात्सर्यम् अनन्तराय आसादनं उपघात इति ज्ञानावरणा__ आस्रवाः सवा भवन्ति । एतैर्हि ज्ञानावरणकमें बध्यते । एवमेव दर्शनावरणस्येति ॥ ११॥
.१'वरणस्याखवा' इति घ-पाठः । ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org