________________
तत्वार्थाधिगमसूत्रम्
[ अध्यायः
टी० - सरागसंयमादयश्चत्वारः कृतद्वन्द्वाः सूत्रेणोपात्तास्ते खल्वमी दैवस्यायुष आस्रवा भवन्ति, प्राक् तेन भाष्यकारेणोपन्यस्ता एव, न व्याख्याताः सद्वेद्यास्रवप्रस्तावे । अधुना तु स्वयमेव प्रपञ्चतो व्याचष्टे -- संयमो विरतिर्ब्रतमित्यादिना भाष्येण । सम्पूर्वाद्यमे र्भावसाधनम् । संयमनं संयमः - सम्यग्ज्ञानपूर्विका विरतिः - प्राणातिपातादिपापस्थानेभ्यो निवृत्तिः । नियमो व्रतमित्यनर्थान्तरम् | रागः -संज्वलन कषायस्तत्सहवर्ती सरागस्तस्य संयमः सरागसंयमः । इतिकरण नियम निवृत्याद्यने पर्यायोपलक्षणार्थः । अनर्थान्तरमित्यनेनैकार्थाभिधायित्वं सूचयति पर्यायशब्दानाम् । कतिप्रकारं पुनस्तद् व्रतं किंलक्षणं चेति पृष्ठे इदमाह - हिंसानृतेत्यादि । हिंसादयः पञ्च कृतद्वन्द्वाः पञ्चमीबहुवचनेन निर्दिष्टाः । पञ्चमी च विरामार्थानां प्रयोगेमहिता | हिंसादिभ्यो विरमणं यत् तद् व्रतमित्येवं वक्ष्यते-- व्याख्यास्यते सप्तमाध्यायादौ । इतिशब्द एवमित्यस्यार्थे । एवमेष सरागसंयमो दैवस्यायुष आस्रवो भवति ॥
३२
भा० - संयमासंयमी देशविरतिरणुव्रतमित्यनर्थान्तरम् । देश सर्वतोऽणुमहती इत्यपि वक्ष्यते ( अ० ७, सू० २ ) ॥ अकामनिर्जरा पराधीनतयाऽनुरोधाचाकुशलनिवृत्तिराहारादिनिरोधश्च || बालतपः । बालो मूढ इत्यनर्थान्तरम् । तस्य तपो बालतपः । तच्चाग्निप्रवेश मरुत्प्रपातजलप्रवेशादि । तदेवं सरागसंयमसंयमासंयमादीनि च देवस्यायुष आस्रवा भवन्तीति ॥ २० ॥
ढी ० - संयमासंयमः कुतश्चित् केनचिदाकारेण निवृत्तिः कचित् प्रवृत्तिः, स्थूलप्राणिविषय संकल्प कृतप्राणव्यपरोपण निवृत्तिमेव प्रतिजानीते गेही, न त्वारम्भजप्राणिप्राणव्यपरोपणविरेमेऽपि संगिरते । तस्यैवंविधस्य संयमासंयमस्य पर्यायानाचष्टे - देशविरतिरणुव्रतमित्यनर्थान्तरम् । सम्पूर्ण प्राणातिपाताद्येकदेशो देशः स्थूलात् प्राणातिपाताद् विरमणे सति । एवमन्यत्रापि द्रष्टव्यम् । प्रपञ्चस्तु वक्ष्यते सप्तमाध्याये | अणु च तद् व्रतं च अणुव्रतम् । अणु- स्तोकं देशनिवृत्तिर्व्रतम् । इतिकरणेनागारिधर्मादिपर्यायाक्षेपः । एतच्च किमिहैव सकलं व्याख्यायते १ नेत्याह- देश सर्वत इत्यादि । देशतो विरातिरणुव्रतं सर्वतो विरतिर्महाव्रतम् । एवं वक्ष्यतेभणिष्यते सप्तमेऽध्याये एव । संक्षेपतश्चैव दैवायुषः संयमासंयम आस्रवः । काम इच्छा प्रेक्षापूर्वका रिता तदर्थोपयोगभाजो या निर्जरा सा कामनिर्जरा । निर्जरा - कर्मपुद्गल परिहाणिः, न कामनिर्जरा अकामनिर्जरा, अनभिलषतोऽचिन्तयत एव कर्म पुद्गलपरिशाटः । सा च पराधीनतयाऽनुरोधाच्चाकुशलनिवृत्तिराहार। दिनिरोधश्च । अकुशलं धाषनवल्गनप्लवनलङ्घनावरोहणकूर्दनस्फोटनादि, तत् तु बलवता गृहीतो निगडादिसंयतः कर्तुमसमर्थः, न च रौद्राध्यवसायी, न च प्राणातिपातादिभ्यो निवृत्या, नापि तेषु प्रवृत्तः, परवशत्वादनास्वादितचतुर्विधाहारः । आदिशब्दाच्छिशिरकाले निरावरण देशव्यवस्थापितोऽपहतप्रावरणः शीत
1
१ '० यमेतद्भाव०' इति क-पाठः । २ विरमणं' इति प्रतिभाति । ३ ' आदिग्रहणात् ' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org