________________
तत्वार्थाधिगमसूत्रम् • • [ अध्यायः ६ ___ भा०-अत्राह-अथाजीवाधिकरणं किमिति ? । अत्रोच्यते
टी०-अत्राहेत्यादिना सम्बन्धं प्रतिपादयति । अत्रेति जीवाधिकरणव्याख्यानावसाने परोऽनवबुध्यमान आह-अथाजीवाधिकरणं किमिति । अथेत्यानन्तर्यार्थः । जीवाधिकरणादनन्तरमजीवाधिकरणं प्राक निरदेशि सूत्रकारेण तत् किमिति-किस्वरूपं-किस्वभावं तत् ? । इतिकरणः प्रश्नेयत्ताप्रतिपादनार्थः । एवं प्रश्ने अत्रोच्यते इत्याहाचार्यः । अत्र प्रश्नेनुरूपमुत्तरमभिधीयतेसूत्रम्-निर्वर्तनानिक्षेपसंयोगनिसर्गा दिचतुर्दित्रिभेदाः परम् ॥ १०॥
टी.-निर्वर्तनादयः कृतद्वन्द्वा यथाक्रमं कृतद्वन्द्वैरेव ब्यादिभिः समानाधिकरणा द्रष्टव्याः। अधिकरणमित्यनुवर्तते, तत् परमित्यनेनाभिसम्बध्यतेऽजीवाधिकरणं, तन्निर्वर्त
नादिभेदाचतुर्धा अजीवविषयान् निर्वर्तनानिक्षेपसंयोगनिसर्गान् कुर्वन् निर्वर्तनादीनां व्याख्या रागद्वेषवानात्मा साम्परायिकं कर्म वनाति, निर्वय॑मानमजीवद्रव्यम् ।
निर्वर्तना निर्वय॑मानप्रयोजना । 'निर्वाति भावसाधनो वा । सा द्विधा मूलोत्तरगुणभेदात् । निक्षिप्यतेऽऽसाविति निक्षेपः-स्थाप्यः कश्चिदजीव एव। स चतुर्विघोऽप्रत्यवेक्षितादिभेदात् । भावसाधनोवा । संयोजनं संयोगः एकत्वीकरणं वा मिश्रणम् । तद् द्वेधा आहारोपकरणभेदात, निसर्जनं निसर्गः त्यागः उज्झनम् । तत् त्रिधा कायादिभेदात् । परवचनमनर्थक पूर्वत्राद्यवचनात् , अस्मिन् वा सति आयवचनमनर्थकं अर्थापत्तिसिद्धेरितिचेत् तन्त्र । अन्तरङ्गताप्रतिपादनार्थत्वात् आद्यशब्दस्य बहिरङ्गताप्रतिपादनार्थत्वाच परशब्दस्येति विशिष्टार्थप्रतिपत्तिहेतुत्वादुभयं न्याय्यमित्यमुमेवार्थ भाष्येण स्पष्टयति
भा०-परमिति सूत्रक्रमप्रामाण्यादजीवाधिकरणमाह । तत् समासतम्रतुर्विधम् । तद्यथा-निर्वतेना निक्षेपः संयोगो निसर्ग इति ।
टी-परं बहिरङ्गम्, इतिकरणशब्दः पदार्थकः । प्रतिविशिष्टपुरुषप्रणीतसूत्रक्रमस्य प्रमाणत्वात् परं-बहिरङ्गमप्रधानमजीवाधिकरणमाह।जीवपरिणामोऽभ्यन्तरङ्गस्तदायत्तत्वात् कर्मबन्धस्य, निमित्तमात्रत्वाद् बहिरङ्गमजीवाधिकरणम् । इष्टाभिधायी वा परशब्दः । प्रायोगिका वैस्रसा वा निर्वर्तनादयोऽध्यवसेयाः । आद्यं च जीवविषयत्वाद् भावाधिकरणमुक्तं कर्मबन्धहेतुर्मुख्यतः। इदं तु द्रव्याधिकरणमुच्यते । परम्-अमुख्यं निमित्तमात्रत्वात् । तदजीवाधिकरणं समासतः-संक्षेपतः चतुष्प्रकारं भवति । समासग्रहणान्मूलोत्तरगुणादिभेदःशरीरादिः शस्त्रकल्पश्च व्यासः सूक्ष्मप्रभेद आपादितो भवति ॥ तद्ययेत्यादिना चतुरो विकल्पान् स्वरूपतः पठति-निवर्तनेत्यादि । इतिकरणो मूलभेदेयत्ताप्रतिपादनार्थः। प्राग्व्याख्याताः शब्दनिभेंदद्वारेण निर्वर्तनादयः । अधुना भेदद्वारेण स्वरूपकथनमेषां क्रियते
षया निवर्तनानिक्षेपसंयोगनिसर्गानि कुर्वन्' इति ग-पाठः। 'निर्वतवेति । इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org