________________
सूत्र १०] • स्वोपज्ञमाष्य-टीकालङ्कृतम्
भा०-तत्र निर्वर्तनाधिकरणं द्विविधम्-मूलगुणनिर्वर्तनाधिकरणमुत्तरगुणनिर्वर्तनाधिकरणं च। तत्र मूलगुणनिर्वर्तना पञ्च शरीराणि वाङ्मनःप्राणापानाश्च । उत्तरगुणनिर्वर्तना काष्टपुस्तचित्रकर्मादीनि ॥
टी-तन्नेत्यादि । तत्र-तेषु निर्वर्तनादिषु निर्वर्तना तावद् व्याख्यायते । निर्वर्तनैवाधिकरणं निर्वर्तनाधिकरणम् । अधिकरणमिति समानाधिकरणः, भावसाधनपक्षे षष्ठीतत्पुरुषः निर्वर्तनाया अधिकरणम् । एवमन्यत्रापि योज्यम् । तद् द्विविध-द्विप्रकारम् । प्रकारद्वयप्रदर्शनार्थमाह-मूलगुणेत्यादि । चशब्दः समुच्चये । मूलं चासौ गुणश्च मूलगुणः । मूलमाद्यं प्रतिष्ठा संस्थानाख्यो गुणो मूलगुणः स एव निर्वर्तनाधिकरणम् । स हि निर्वृत्तः सन् अधिकरणीभवति कर्मबन्धस्य। तथाऽङ्गोपाङ्गसंस्थानमृद्वादितैक्ष्ण्यादिरुत्तरगुणः सोऽपि निवृत्तः सन्नधिकरणीभवति कर्मबन्धस्योत्तरगुण एव निर्वर्तनाधिकरणम् । तत्र मूलगुणनिर्वर्तना-पश्च शरीराणीत्यत्राधिकरणशब्दो नोदितो भाष्यकृता लाघवैषिणा । अनुक्तोऽपि च प्रत्यासत्तेर्गम्यते,अतो मूलगुणनिर्वतेनाधिकरणम् । औदारिकादीनि पञ्च शरीराणि । तानि च द्वितीयाध्याये व्याख्यातानि प्रकृतवस्तुनि योज्यन्ते । औदारिकशरीरवर्गणाप्रायोग्यद्रव्यैर्निर्मापितमौदारिकशरीरसंस्थानं प्रथमसमयादारभ्य मूलगुणनिर्वर्तनाधिकरणमात्मनो भवति, बन्धनिमित्तत्वात् । उत्त
रगुणनिर्वर्तनाधिकरणमौदारिकस्याङ्गोपाङ्गमृजाकर्णवेधावयवसंस्थानादि । निर्वर्तनाधिकरणस्य वैक्रियस्यापि वपुषः स्ववर्गणाप्रायोग्यद्रव्यनिर्मापितमादिसमयादारभ्य स्वरूपम् संस्थानं मूलगुणनिर्वर्तनाधिकरणम्, अस्य तूत्तरगुणनिर्वर्तनाधिकरणमङ्गो
. पाङ्गकेशदशननखादिकम्, आहारकशरीरस्यापि स्ववर्गणायोग्यपुद्गलद्रम्यनिर्मापितं संस्थानं मूलगुणनिर्वर्तनाधिकरणम् , उत्तरगुणनिर्वर्तनाधिकरणमङ्गोपाङ्गादि, कार्मसघातलक्षणस्य कार्मणस्यापि तद्योग्यद्रव्यनिर्मापितस्वसंस्थानं मूलगुणनिर्वर्तनाधिकरणम्, उत्तरगुणनिर्वर्तनाधिकरणमस्य नास्त्येव, तैजसस्याप्युष्णलक्षणस्याशितपीतपावकशक्तिभाजोलब्धिप्रत्ययस्य च परनिग्रहानुग्रहकारिणः स्ववर्गणानिर्मापितसंस्थानं मूलगुणनिर्वर्तनाधिकरणम् , अस्याप्युत्तरगुणनिर्वर्तना नैवास्तीति ॥ वाङ्मनःप्राणापानाश्चेति । चशब्दान्मूलगुणनिर्वर्तनाभिसंबन्धः । वाङ्मनोवर्गणायोग्यद्रव्यनिर्मापितौ वाङ्मनःसंस्थानविशेषौ मूलगुणनिवर्तनाधिकरणम् । तथा प्राणापानवर्गणायोग्यनिर्मापितौ उच्छासनिश्वासाकारौ मूलगुणनिर्वर्तनाधिकरणम् । एषामप्युत्तरगुणनिर्वर्तना न सम्भवत्येवेति । मूलगुणनिर्वर्तनाधिकरणमित्थं व्याख्याय प्रकारान्तरेणोत्तरगुणनिर्वर्तनामाचिख्यासुराह-काष्ठपुस्तचित्रकर्मादीनीति । कर्मशब्दः प्रत्येकममिसम्बध्यते । तत्र काष्ठकर्म कुट्टिमपुरुषादीनां कृतिः, अत एवोत्तरगुणनिर्वतनोच्यते । प्रसिद्धपुरुषाधाकृतेः प्रतिबिम्ब निर्वर्तनादेव पुस्तचित्रकर्मणी अपि वाच्यम् । पुस्तकर्म सूत्रचीवरकादिग्रथितकृत्रिमपुत्रकादिकं, चित्रकर्मात्यन्तप्रसिद्धम् । आदिग्रहणात् लेप्यपत्र
, 'परितो गृहानु० ' इति ब-ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org