________________
, सूत्र ९]
. स्वोपज्ञभाष्य-टीकालङ्कृतम् पुनरावर्तनीयः। ततश्च द्वितीया त्रिंशत् लभ्यते। तथा क्रोधकारितकायारम्भ इत्यप्यभ्यावतैमाने ग्रन्थे षट्त्रिंशदेव विकल्पानां प्राप्यते। एवमेषा षट्त्रिंशत् त्रिप्रकाराऽपि पिण्डिताष्टोत्तरं परिणामशतं भवतीत्येतदेवोपसंजिहीर्षन् दर्शयति
भा०तदेवं जीवाधिकरणं समासेनैकशः षत्रिंशद्रिकल्पं जीवाधिकर स्य भवति । त्रिविधमप्यष्टोतरशतविकल्पं भवतीति । विकल्पसङ्ख्या संरम्भः संकल्पः, परितापनया भवेत् समारम्भः।
प्राणिवधस्त्वारम्भः, त्रिविधो योगस्ततो ज्ञेयः ॥९॥ टी-तदेवं जीवाधिकरणं समासेनेत्यादि यत् प्रस्तुतं जीवाधिकरणं तदेवं समासेन-संक्षेपेण एकैकं संरम्भाधिकरणं समारम्भाधिकरणं आरम्भाधिकरणं च षट्त्रिंशद्रिकल्प भवति । त्रिविधमपीति समुच्चयेऽपिशब्दः । तिस्रोऽपिषत्रिंशतः शतमष्टोत्तरं विकल्पानां भवतीति भाष्यानुसारणमवसायैव सूत्र एव स्फुटीकरणाय पुनरुच्यते, संरम्भादीनां कषायावसानानामाहितद्वन्द्वानां विशेषशब्देन समानाधिकरणस्तत्पुरुषः षष्ठीसमासो वा प्रत्येकं वा विशेषशब्देनाभिसंबन्धसामर्थ्यात् संरम्भादि विशेषैरिति तृतीयानुपपत्तिः, क्रियावादिपदार्थान्तराभावात, न वाक्यशेषोपपत्तेः प्रविश पिण्डीमिति यथा तहापि क्रियापदावधारणमेकै मिद्यात्, एकमेकं त्रीस्त्रीन् भेदान् कुर्यादिति वा, योगादीनामानुपूर्व्यवचनं पूर्वोपर विशेषणत्वात । तसात् क्रोधादिचतुष्टयकृतकारितानुमतभेदात् कायादीनां संरम्भसमा- कृतकारितादि यन्त्रम् रम्भविशेषाः पत्रिंशद् विकल्पाः स्फुटीक्रियन्ते यन्त्रेण । उद्धृतक्रोधप- | कषाय कषाय | कषाय रिणाम आत्मा करोति स्वयं कायेन संरम्भमिति प्रथमविकल्पः । तथा आविर्भूतमानपरिणाम आत्मा करोति स्वयं कायेनेति द्वितीयः । तथोपजातमायापरिणतिरात्मा करोति स्वयं कायेन संरम्भमिति । १२ १२ १२ तृतीयः। तथा लोभकषायग्रस्तः करोति स्वयं कायेन संरम्भमिति | ३६ | ३६ । ३६ । चतुर्थः । एवं कृतेन चत्वारो विकल्पाः । कारितेन चत्वारः । अनुमत्यापि चत्वारः । एते द्वादश कायेन लब्धाः। तथा वाचा द्वादश, मनसाऽपि द्वादश, एते पत्रिंशत् संरम्भेण लब्धाः। तथा समारम्भेणापि षट्त्रिंशत्, आरम्भेणापि षट्त्रिंशत्, इत्येवमष्टोत्तरं विकल्पशतं भवति । का पुनर्भावना ? योगनिमित्तं हि कर्म बध्यते "कायवाङ्मनःकमें योगः" (अ० ६, मू०१) इति वचनाद्, बन्धस्थितिः । कोपादिकषायाञ्जनवशीकारात् स्वयं करणपरिणतो सत्यां कारितानुमतिपरिमाणद्वारेण च प्राणातिपातादिसंकल्पपरितापनाव्यापत्तयः साम्परायिककर्मबन्धहेतवो भवन्तीति प्रतिपादितं प्राक् । कायादयो व्यस्ताः समस्ताश्च बन्धहेतवः । समस्तास्तु प्रधानोपसर्जनतया च बन्धहेतव इति प्रतीतम् । एवमेतज्जीवाधिकरणं विकल्प्य भावनीयमिति ॥९॥
,'सकषायः' इति घ-पाठः । २ 'आरम्भः प्राणिवधः' इति घ-पाठः । ३ 'णामद्वारेण' इति --पाठः।
कृत
कारित अनुमत
काय | वाकू मनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org