SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १८ तत्वार्थाधिगमसूत्रम् [ अध्यायः ६. अनुमतमनः संरम्भः इति । एवं समारम्भारम्भावपि । तदपि पुनरेकशः कषायविशेषाच्चतुर्विधम् ॥ टी० - संरम्भं कायेन करोति वाचा करोति मनसा करोतीति । एवं कारयत्यपि विकल्पत्रयं, तथाऽनुमन्यते चेति विकल्पत्रयमेव । कृतवचनं स्वतन्त्रकर्तृप्रतिपादनार्थम् । कारिताभिधानं प्रयोज्यपरतन्त्रप्रदर्शनार्थम् । अनुमतिवचनं प्रयोजकस्य मानसपरिणामप्रदर्शनार्थम् । एतदेव भाष्यकारो दर्शयति तद्यथा - कृतकायसंरम्भ इत्यादिवचननवकेन । यथाऽऽदौ कायसंरम्भः कृतकारितानुमतभेदेन विकल्पितः, एवं समारम्भारम्भावपि कृतकारितानुमत विकल्पितौ वाच्यौ । समारम्भं करोति समारम्भं कारयति समारम्भमनुमन्यते कायेनेत्यादिर्नवधा विकल्पना । तथाऽऽरम्भं करोति कारयति अनुमोदते चेति नवैव विकल्पा वेदितव्याः । तदपीत्यादिना पुनश्चतुर्धा भिनत्ति । कृतकायसंरम्भादिकरणादि पुनरेकैकं कषायविशेषाच्चतुर्विधं भवति । कषायाः प्रागभिहितलक्षणाः । सामान्येन विशेषो भेदस्तद्भेदाच्चतुर्विधं भवति । भा० – तद्यथा - क्रोध कृतकायसंरम्भः मानकृतकायसंरम्भः मायाकृतकायसंरम्भः लोभकृतकायसंरम्भः क्रोधकारितकायसंरम्भः मानकारित कायसंरम्भः मायाकारितकाय संरम्भः लोभकारितकाय संरम्भः क्रोधानुमतकाय संरम्भः मानानुमतकायसंरम्भः मायानुमतकायसंरम्भः लोभानुमतकायसंरम्भः । एवं. वाङ्मनोयोगाभ्यामपि वक्तव्यम् । तथा समारम्भारम्भौ ॥ डी० - तद्यथेत्यादिना दर्शयति यथाभिहितलक्षणान् विकल्पान् क्रोधकृतकायसंरम्भः । एवं मानमायालोभकृतसंरम्भ इत्यपि वाच्यम् । एवं क्रोधकारितका संरम्भः मानमायालोभकारितका संरम्भ इत्यपि वाच्यम् । तथा क्रोधानुमतकायसंरम्भः मानमायालो भानुमतकायसंरम्भ इत्यपि वाच्यम् । एवं वाङ्मनः संयोगाभ्यामपि वक्तव्यमित्यतिदेशवाक्यम् । एवमित्युक्तप्रकारेण वाग्योगेनापि क्रोधादिविशिष्टेन वाच्यम् । क्रोधकृतवाक्संरम्भः मानमायालोभकृतवाक्संरम्भ इत्यपि वाच्यम् । तथा क्रोधकारितवाक्संरम्भः मानमायालोभकारितवाक्संरम्भ इत्यपि वाच्यम् । तथा क्रोधानुमतवाक्संरम्भः मानमायालोभानुमतवाक्संरम्भ इत्यपि वाच्यम् । एवं मनोयोगेनापि क्रोधादि विशिष्टेन विकल्पा एतावन्तो वाच्याः । क्रोधकृतमनः संरम्भः मानमायालोभकृतमनः संरम्भ इत्यपि वाच्यम् । तथा क्रोधकारितमनः संरम्भः मानमायालोभकारितमनः संरम्भ इत्यपि वाच्यम् । क्रोधानुमतमनः संरम्भः मानमायालो भानुमतमनः संरम्भ इत्यपि वाच्यम् । एवमेते षट्त्रिंशद्भेदाः, तद्यथा - क्रोधकतकायसंरम्भ इत्यादिना ग्रन्थेन प्रतिपादिताः । तथा समारम्भारम्भाविति अतिदेशेन समारम्भस्य षट्त्रिंशद्भेदत्वं संरम्भवत् प्रतिपादयति । क्रोधकृतकायसमारम्भ इत्येवमतिक्रान्तग्रन्थः १'० कल्पेन' इति ग-पाठः । Jain Education International For Private & Personal Use Only 9 www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy