SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १७ सूत्र ९ ___ . • स्वोपज्ञभाष्य-टीकालङ्कृतम् सचेतनानाम् । विषेण मारणम् । लवणेन पृथिव्यादिकायाद्युपधातः । स्नेहेन घृततैलादिना चैषामेवोपयातः । क्षारेण सकलत्वङ्मांसाद्यवकर्तनम् । अम्लेनाप्यारनालादिना पृथिव्यादि. कायोपघातः । अनुपयुक्तस्य च कायादयो यां चेष्टामभिनिवर्तयन्ति तया तया कर्म बध्यत इति । अथ भावाधिकरणं कतिप्रकारमित्याह-भावाधिकरणमष्टोत्तरं शतम् । भाव:तीवादिपरिणाम आत्मनः, स एवाधिकरणं तचाष्टोत्तरशतभेदमष्टोत्तरशतं भेदानामागाम्यनन्तरं सूत्रेण भावयिष्यत इत्येदुभयमाख्यातं यत् प्राक् पृष्टं परेण जीवाधिकरणमजीवाधिकरणं च, नातः परमन्योऽधिकरणभेदोऽस्तीति ॥८॥ सूत्रम्-तत्र-आद्यं संरम्भसमारम्भारम्भकृतकारितानुमत___ कषायविशेषैसिस्त्रिस्त्रिश्चतुश्चैकशः ॥९॥ टी-तत्रेत्यनेन सम्बन्धं सूचयति, तयोर्जीवाजीवाधिकरणयोरनन्तरसूत्रप्रस्तुतयोर्जीवाधिकरणं तावदुच्यते, आद्यं संरम्भसमारम्भेत्यादि सूत्रम् ॥ भा०-आद्यमिति सूत्रक्रमप्रामाण्याजीवाधिकरणमाह । तत् समासत त्रिविधम् । संरम्भः १ समारम्भः २ आरम्भः ३ इति । भेदप्रभेदाः । एतत् पुनरेकशः कायवाङ्मनोयोगविशेषात् त्रिविधं भवति । " तद्यथा-कायसंरम्भः वाक्संरम्भः मनःसंरम्भः; कायसमा. रम्भः वाक्समारम्भःमनःसमारम्भः कायारम्भः वागारम्भः मनआरम्भ इति॥ टी-आदौ भवमाद्यम् । इतिशब्दः शब्दपदार्थकः । किंकृतं पुनराद्यत्वं किंवा तदाद्यमित्याह-सत्रक्रमप्रामाण्याज्जीवाधिकरणमाह । सूत्रक्रमः--सूत्रानुपूर्वी सूत्रसन्निवेशः तत्प्रामाण्यादाधम् । किं तत् ? जीवाधिकरणमित्याह सूत्रकारः। तत् जीवाधिकरणं समा सतः-संक्षेपतः त्रिविधं-त्रिप्रकारम्। प्रकारत्रयप्रदर्शनायाह-संरम्भः संरम्भादीनां व्याख्या समारम्भ आरम्भ इति । तत्र प्राणातिपातादिसंकल्पावेशः संरम्भः । तत्साधनसनिपातजनितपरितापनादिलक्षणः समारम्भः । प्राणातिपातादिक्रियानिवृत्तिरारम्भः । एतदिति जीवाधिकरणं परामृशति । पुनःशब्दः क्रियाव्या. स्यर्थः । सकृद् मित्रं संरम्भादिभेदेन जीवाधिकरणं भिद्यते । एकश इत्येकैकम् । संरम्माधिकरणादि कायवाङ्मनोयोगविशेषात् त्रिविधं भवति । कायादयः प्राय व्याख्यातस्वरूपाः । कायसंरम्माधिकरणं वाक्संरम्भाधिकरणम्, एवं समारम्भारम्भयोरपि कायादिभेदेन च त्रैविध्यं वाच्यम् । योगभेदेन विकल्प्य संरम्भादीनधुना क्रियाद्वारेण योगान् विकल्पयति भा०-तदप्येकशः कृतकारितानुमतविशेषात् त्रिविधं भवति । तद्यथाकृतकायसंरम्भः कारितकायसंरम्भः अनुमतकायसंरम्भः; कृतवाक्संरम्भः कारितवाक्संरम्भः अनुमतवाक्संरम्भः; कृतमनःसंरम्भः कारितमनःसंरम्भः १'मति' इत्यपि पाठः। ल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy