________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ६ अधिकरणस्य वैविध्यम् सूत्रम्-अधिकरणं जीवाजीवाः ॥६-८॥
टी०-अथवा यस्मिन् सति त्रिविधास्रवप्रवृत्तिस्तदधिकरणमनिर्धारितभेदम्, अतस्तद्भेदनिर्दिधारयिषयेदमाचष्टे-अधिकरणं जीवाजीवाः ॥ साम्परायिककर्मबन्धः प्रस्तुतस्तस्य विषय आस्रवोऽधिकरणम् । तीव्रादीनां जीवाजीवविषयत्वात, जीवानजीवान् वा विषयीकृत्य सत्त्वाः प्रवर्तन्ते तीव्रादिभावेन । ते च जीवा अजीवा वा तीव्रादिभावेन भवितुः परिणन्तुरात्मनो विषयमुपेताः साम्परायिककर्मबन्धहेतवो भवन्तीति दुर्गतिप्रस्थाननिमित्तत्वादधिकरणशब्दवाच्याः । ननु चाधिकरणिकी क्रिया प्रागेवंविधैवोक्ता, किमर्थं पुनरधिकरणमुच्यते । चरितार्थत्वादन्यतरोपदेश एव ज्यायानिति, अत्रोच्यते । पूर्वत्र क्रियासहायद्रव्यादानमाअविवक्षया कीर्तितमाधिकरणिक्यम्, इह पुनरात्रवोत्कर्षापकर्षोपादानसामोदनभिहितविशेपकृत्यार्थमिदमुच्यते-जीवाजीवाः। इतरेतरयोगद्वन्द्वः। द्विवचनप्रसङ्ग इति चेत् तन्न । व्यक्क्या पर्यायभेदस्य विवक्षितत्वादिति, जीवाजीवाधिकरणमित्यस्तु सूत्रे लघुत्वादित्युच्यते जीवाजीवावेवाधिकरणमिति समानाधिकरणकल्पस्येत्याशङ्कायां जीवाजीवद्रव्यमात्रसम्प्रतीतेरास्रवविशेषाभावः स्यात् । आस्रवस्य हि क्रियालक्षणस्य जीवाः कारणं-निमित्तमिष्यन्ते । स चैवं सति न सिध्यतीति पुरातन एव पाठः साधीयान् । तस्मादास्रवस्यात्मपरिणामस्य प्रयोगलक्षणस्य बाह्यश्चेतनोऽचेतनो वा पदार्थ उत्पत्तौ निमित्तमिति हिंसादिपरिणामो जीवाधिकरणोऽजीवाधिकरणश्चेत्येनमेवार्थ भाष्येण स्फुटयति
भा०-अधिकरणं द्विविधम्-द्रव्याधिकरणं भावाधिकरणं च । तत्र द्रव्याधिकरणं छेदनभेदनादि । शस्त्रं च दशविधम् । भावाधिकरणमष्टोत्तरशतविधम् । एतदुभयं जीवाधिकरणमजीवाधिकरणं च ॥८॥
टी०-अधिकरणं द्विविधमित्यादि भाष्यम् । दुर्गत्यधिकारादधिकरणम् । तचै(क)कशो द्विप्रकार, जीवविषयं जीवा(द्रव्या )धिकरणं भावाधिकरणं च। अजीवविषयमपि द्रव्याधिकरणं भावाधिकरणं च । समुच्चयार्थश्चशब्दः । द्रव्यमेवाधिकरणं द्रव्याधिकरणम् । एवं भावाधिकरणमपि । तत्र द्रव्याधिकरणं छेदनभेदनादि । शस्त्रं च दशविधम् । तत्रेति तयोर्द्रव्यभावाधिकरणयोर्द्रव्याधिकरणं तावदुच्यते । छिद्यते येन परशुवासीव्यधनादिना तत् छेदनम् । भिद्यते येन मुद्गरकोणकादिना तद् भेदनम् । आदिग्रहणात् त्रोटनविशसनोद्वन्धनयन्त्राभिघातादि वक्ष्यमाणं निर्वर्तनादिसूत्रे ।। ननु चादिग्रहणादेव नानाविधशस्त्रान्तर्भावोऽपि द्रव्यरूपत्वात् किमर्थ भेदेनोपादानं शस्त्रस्येति ? । उच्यते-संख्याविशेषनिर्धारणार्थ दशैव प्रकाराः शस्त्रस्येति। चशब्दोऽवधारणार्थः। द्रव्यशस्त्रं दशविधमेव परचैधदहन विषलवनस्नेहक्षाराम्लानि अनुपयुक्तस्य च मनोवाक्कायास्त्रयः। एतेन द्रव्याधिकरणेन जीवाजीवौ विषयीकृत्य साम्परायिकं कर्म बध्यते। तद्यथा-पाणिपादशिरोधरादीनां परश्वादिना छेदः। अमिना दहनं
१ 'करणतायां कस्येत्याशज्ञायां ' इति प्रतिभाति । २ दिदहन ' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org