________________
सूत्रं ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् आत्मनः शक्तिः सामर्थ्य महाप्राणता । तच्च वज्रर्षभनाराचसंहननीयापेक्षमेव त्रिपृष्ठादीनां संरब्धसिंहपाटनादिलक्षणम् । सिंहादीनां च मदजलावसेकपिच्छिलीकृतगण्डस्थलमुखमहावारणादिविदारणाभिव्यक्तं तस्य विशेषः-अतिशयस्तस्माद् वीर्यविशेषात् कर्मबन्धविशेषः । अत्राप्यधिमात्रादिभेदप्ररूपणा पूर्ववत् कार्या। मन्दप्राणस्य तु कृच्छेण धृतोऽपि न तादृगुत्कर्षविशेषो भवति यादृशो महाप्राणस्य, अतो वीर्यातिशयः कर्मबन्धनिमित्तमस्तीति । अधिक्रियते येनात्मा दुर्गतिप्रस्थानं प्रत्यधिकरणं तन्निर्वर्तनासंयोजनादिभेदं वक्ष्यते । तद्विशेषाच्च तदतिशयात् कर्मबन्धातिशयः । प्रतिदिवसमेव हि निघृणमनसो निर्भयाः प्राणिप्राणव्यापत्तये मृषास्तेयादिकृतवक्रश्रुतीः सृजन्ति ते चाधिकरण विशेषाः क्लेशोपादानं प्रति प्रकर्षवर्तिनः कूटगलयन्त्रपात्रपाशदेय इत्यादिकादधिकरण विशेषाच विशेषो भवति वन्धस्येति । अज्ञातभावाच संचेतयतां भवति कर्मबन्धस्तथा सप्तमेऽध्याये वक्ष्यामः ॥ लघुरित्यादिना तीव्रान्मन्दस्यापकर्ष दर्शयति । तथा ज्ञातभावादज्ञातभावस्य वीर्यातिशयान्मध्यमन्दवीर्ययोरधिकरणातिशयाच मध्यमन्दाधिकरणविशेषयोरपकर्षोऽवगन्तव्यः, तथा मध्यमन्दप्रतिद्वन्द्विनः प्रकृष्टस्य प्रदर्शनं तीव्रस्तीव्रतरस्तीव्रतम इति । तीव्रमन्दग्रहणात् मध्यपतितस्य मध्यमभावस्यापि ग्रहणम् । मध्यमो मध्यमतरो मध्यमतमः । एते च तीव्रमध्यमन्दाः प्रकर्षापकर्षवर्तित्वादधिमात्रादिभेदेन भित्त्वा व्याख्येयाः। इतिशब्दः समस्तसाम्परायिककर्महेतुसङ्ग्रहार्थः। तद्विशेषाच्च बन्धविशेषो भवतीति तदित्यनेन तीव्रमध्यमन्दाः परामृश्यन्ते । तीवादीनां विशेषस्तद्विशेषस्तस्मात् तद्विशेषाद् बन्धविशेष इत्यतः सतीष्वपीन्द्रियकषायावतक्रियासु तीवभावाद्यपेक्ष एव कमेबन्धः सिद्धः॥७॥
भा०-अत्राह-तीव्रमन्दादयो भावा लोकप्रतीताः। वीर्य च जीवस्य क्षायोपशमिकः क्षायिको वा भाव इत्युक्तं (अ० २, सू० ४-५)। अथाधिकरणं किमिति । अत्रोच्यते
टी०-अत्राहेत्यादिः सम्बन्धग्रन्थः । अत्रेत्यतिक्रान्तसूत्रव्याख्यानावसाने परः प्रश्नयत्यजानानः--तीवमन्दादयो भावाः। आदिग्रहणात् ज्ञाताज्ञातभावपरिग्रहः। एते लोकप्रतीताः। लोक्यत इति लोकः-प्रेक्षापूर्वकारी शिष्टजनः, सामान्येन वा रथ्यापुरुषादिलोकस्तस्य प्रतीतास्तीवादयः प्रकर्षापकर्षादिलक्षणा इति, नैषां लक्षणं प्रष्टव्यं वीर्य चात्मनो वीर्यान्तरायकर्मक्षयोपशमप्रयोजनः क्षयप्रयोजनो वा भाव:--आत्मनो भवनं परिणामविशेषः, शक्तिलक्षण इत्युक्तंनिश्चितम् । अथाधिकरणं किंतीवादिगोचरत्वाद् विप्रतिपत्तेश्चाधिकरणविषय एव प्रश्नः, प्रथमतरं वातिसंक्षिप्तमुक्तमधिकरणम् , अधुना तद्विस्तरार्थिना तीवादिभावपरिज्ञानानन्तरमधिकरणं पृच्छयते-किंखरूपमधिकरणमिति । अत्रोच्यते इत्याहाचार्यः । अत्र-अधिकरणस्वरूपप्रश्ने अभिधीयते तेषां तीव्रादीनां द्विविधा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org