________________
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ६
अनन्तरसूत्रोपन्यस्तेन्द्रियादिसम्बन्धमाचष्टे । कियन्तः पुनस्ते इति सङ्ख्यया निश्रयार्थमाहएकोनचत्वारिंशदिति । स्वशब्देनैवोक्तत्वाद् बहुत्वस्य न पुनर्बहुवचनं सङ्ख्याशब्दात् । ईर्यापथव्यवच्छेदायाह — साम्परायिकास्त्रवाणामिति । सम्परायः प्रयोजनं कर्मैव नान्यत् तस्यास्रवाः-प्रवेशमार्गास्तेषां विशेषो भवतीति सम्बन्धनीयम् । कुत इत्याह- तीव्रभावादित्यादि । तीव्रादिभ्यः कृतद्वन्द्वेभ्यः । पञ्चमी हेतौ । भावोऽप्यधिकरणवत् पृथग् व्याख्येय इत्याशङ्कायां प्रत्येकमभिसम्बन्धं दर्शयति - तीव्रभावात् मन्दभावात् ज्ञातभावादज्ञात भावादिति । तत्रः - प्रकृष्टो भावः - परिणामस्तस्मात् तीव्रभावाद्धेतोः कर्मबन्धविशेषः, सातिशयश्च ती परिणामः, तद्यथा - तीवस्तीव्रतरस्तीव्रतमः । कारणभेदश्च कार्यभेदानुविधायी । कार्यभेदोऽपि हि कारण भेदमवगमयतीति, अतः परिणाममात्रापेक्षया आत्मा कर्म बनाति । तथा मन्दस्तीत्रः स्वल्पो भावस्तस्माच्च कर्मभेदोऽवश्यंभावी, स्वल्प एवान्तरः परिणामो यदा मृदुर्भवति तदा कर्मबन्धोऽपि स्वल्पपरिणामापेक्षत्वान्मृदुरेव भवति, न जातुचित् तीव्रभावतुल्यो बन्धः । यथा सिंहस्य हन्तुर्गोघातिनश्च समानेऽपि प्राणातिपाते निवृत्तेऽपि गणितजघनाभिष्टश्रवणोद्भूतपरितोषनिर्भरचेतसः केसरिव्यापादिनः शौर्याभिनिवेशात् प्रदीपिततीवभावस्य बहुलं भवति कर्मबन्धः । स चापि तीव्रो भावः कदाचिदधिमात्रः कदाचिदधिमात्रमध्यः कदाचिदधिमात्रमृदुः कदाचिन्मध्याधिमात्रः कदाचिन्मध्यमः कदाचिन्मध्यमृदुः कदाचिन्मृद्वधिमात्रः कदाचिन्मृदुमध्यः कदाचिन्मृदुरिति नानाध्यवसायापेक्षत्वात् । इतरस्य तु सर्वजन निन्द्यस्य धिकाराद्युपघातक - वचनाकर्णनापारचिन्तोद्वृत्तस्य कृतेऽपि कर्मणि मन्दपरिणतेः स्वल्पः कर्मबन्धो भवति । तथा ज्ञातभावादज्ञात भावाच्चेति । ज्ञातस्य भावो ज्ञातभावः । ज्ञातमस्यास्तीति अर्शआदिपाठादेव ज्ञात आत्मा, ज्ञानाद् उपयुक्तस्य तस्य यो भावः परिणामः स ज्ञातभावः-- अभिसन्धाय प्राणातिपातादौ प्रवृत्तिः, अपर एतद्विपरीतः स खल्वज्ञातभावोऽनभिसन्धाय प्राणातिपातकारीत्यत्रापि पूर्ववदेव कर्मबन्धविशेषो द्रष्टव्यः । यो हि मृगमेवाभिसन्धाय व्यापादयामीति शिली - मुखक्षेपमाचरति, यथ स्थाणुं विध्यामीति कृताभिसंधि पत्रिणममुञ्चद्विनिपातितश्चान्तरालवर्ती तेन पत्रिणा मृगः कपोतो वा, तुल्यप्राणातिपातक्रिययोरप्यनयोर्निमित्तविशेषाद् बन्धविशेषोऽवसेयः, प्राच्यस्य प्रकृष्टो बन्धः, पाश्चात्त्यस्यानभिसन्धेः कषायादिप्रमादवशवर्तिनः पूर्वकादल्पः कर्मबन्धः यस्मान्न विना रागात् क्षेपः शरस्य संभवति, रागश्च प्रमादः । यत एवमाह — अज्ञानसंशयमिथ्याज्ञानरागद्वेषस्मृत्यनवस्थानधर्मानादरयोग दुष्प्रणिधानमित्यप्रकारः प्रमादः प्रकृष्टकपायलेश्या बलाधानाज्ञानप्रभवः पौरुषेयपरिणामसमुत्थानः कटुविपाको नरकपाताहित संस्कारः तीव्रादिसातिशयः मध्यकपायले श्योदयबलाधानो मध्यममध्यतरादिभेदः प्रतनुकषायलेश्यापरिणतिप्रमादबलाधिष्ठानवासनावासितत्वान्मन्दमन्दतरादिभेदः । तथा वीर्यविशेषाधिकरणविशेषाच्चेति । वीर्यान्तरायकर्मक्षयोपशमजा लब्धिः वीर्यम्
↑
१ ' चिन्तोद्धतस्य' इति पाठः ।
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org