SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सूत्रं ७] स्वोपज्ञभाष्य टीकालङ्कृतम् भवति सम्पात्यसत्त्वानाम् ॥ अनाभोगक्रिया अप्रत्यवेक्षिताप्रमार्जिते देशे शरीरोपकरणनिक्षेपः॥ स्वहस्तक्रिया अभिमानारूषितचेतसाऽन्यपुरुषप्रयत्ननिवृत्या या स्वहस्तेन क्रियते॥चिरकालप्रवृत्तपरदेशिनि पापार्थे भावतो यदनुज्ञानं सा निसर्गक्रिया पराचरिताप्रकाशनीयसावधप्रकाशीकरणं विदारणक्रिया । भाषाद्वयाभिज्ञःपुरुषो यथैकं विचारयति अर्हत्प्रणीताज्ञोल्लङ्घनेन स्वमनीषया जीवितादिपदार्थप्ररूपणं (वा) ॥ स्वयं नयनक्रिया अन्यैर्वाऽऽनायनं स्वच्छन्दतो नयनक्रिया ।अनवकाङ्क्षाक्रिया द्विधा-स्वपरभेदतः। तत्र स्वानवकाङ्क्षा जिनोक्तेषु कर्तव्यविधिषु प्रमादवशवर्तितानादरः, तथा चानाद्रियमाणः परमपि नावकाङ्क्षतीति परानवकाङ्क्षाक्रियेति।। भूम्यादिकायोपघातलक्षणा शुष्कतृणादिच्छेदलेखनादिका वाऽप्यारम्भक्रिया स्वपरभेदतः।। बहूपायार्जनरक्षणमूर्छालक्षणा परिग्रहक्रिया ॥ मायाक्रिया तु मोक्षसाधनेषु ज्ञानादिषु मायाप्रधानस्य प्रवृत्तिः विरुद्धफललिप्सया मिथ्यादर्शनमार्गेण सन्ततप्रयाणमन्यं साधयामीत्यनुमोदमानस्य मिथ्यादशेनक्रिया ॥ संयमविघातिनः कषायाधरीन् प्रत्याख्येयान् न प्रत्याचष्ट इत्यप्रत्याख्यानक्रिया । इतिशब्दः साम्परायिकक्रियेयत्तावधारणार्थः । एवमेताः क्रियाः पञ्चविंशतिः स्थूलस्थूलाकारा विस्तरभीत्याऽव्याख्याताः साम्परायिककर्महेतवः, काश्चित् परस्परतः किश्चिद्भेदभाजः काश्चिद् विविक्तार्थाः सक्षेपतः कायवाङ्मनोदुश्चरितलक्षणाः सूक्ष्मसूक्ष्मतरभूरिभेदा अपि भाष्यकारेण प्रदर्शिताः समस्तकायादिदुश्चरितकलापसङ्ग्रहाय, प्रवचनाभिज्ञेन तु युक्त्यागमाभ्यां विशेष्य व्याख्येया इति ॥ एतत् पुनरिन्द्रियादिनिमित्तं साम्परायिकं कर्म बनतां जीवानां किं सर्वेषां समानं भवति, उत सतीन्द्रियादिमत्त्वे साम्परायिककर्मवन्धमाजां परस्परेण विशेषः । अस्ति विशेषः च सपरिणामजनितः । परिणामोऽनेकरूपस्तद्भेदात् कर्मबन्धभेद इत्याहसूत्रम्-तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषेभ्यस्तद्विशेषः॥६-७॥ टी-आशयपरिणामानुरूप्येण कर्तृणां बन्धमात्राः सत्स्विन्द्रियादिषु निमित्तेषु प्रतिविशिष्टा भवन्ति नियमतः, न तुल्यास्तद्विपरीता वा । कदाचित् तुल्यपरिणामानां तुल्या अपि विषमपरिणामानामतुल्याश्चेत्येवमर्थ भाष्येण प्रपश्चयति भा०—एषामेकोनचत्वारिंशत्साम्परायिका(स्रवा)णां तीव्रबन्धविशेषाणां हेतवः भावात् मन्दभावात् ज्ञातभावादज्ञातभावाद वीर्यविशेषादधि करणविशेषाच विशेषो भवति-लघुर्लघुतरो लघुतमस्तीवस्ती. व्रतरस्तीव्रतम इति । तद्विशेषाच बन्धविशेषो भवति ॥७॥ टी.-एषामेकोनचत्वारिंशत्साम्परायिकास्रवाणामित्यादि भाष्यम् । एषामिति १ 'चितारयति' इति क-पाठः; 'विप्रतारयति' इति प्रतिभाति.।. २ ' साम्परायिकानामेषा० ' इति घ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy