________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ६ त्वक्रिया तत्त्वार्थाऽश्रद्धानलक्षणा। सा त्रिविधा-अभिगृहीता १ अनभिगृहीतारसंदेहतः ३॥ तत्राभिगृहीता त्रयाणां त्रिषष्टयधिकानां प्रवादिशतानाम् , अनभिगृहीताऽनभ्युपगतदेवताविशेषाणां तत्त्वार्थश्रद्धानं, सन्दिग्धं मिथ्यात्वं प्रवचनोक्तमक्षरमर्थ पादं वा स्तोकमप्यश्रद्दधानस्य भावतो यद् भवति ॥ आत्माधिष्ठितकायादिव्यापारःप्रयोगः, तत्र योगत्रयकृता (तं) पुद्गलानां ग्रहणं प्रयोगक्रिया धावनवलनादिः:कायव्यापारो वा, हिंस्रपरुषानृतादिवाग्व्यापारो वा, अभिद्रोहाभिमानेादिव्यापारो वा प्रयोगक्रिया । अपूर्वापूर्वविरतिप्रत्यामुख्यमुत्पद्यते यत् तपखिनः सा समादानक्रिया। अन्ये व्याचक्षते-द्विविधा समादानक्रिया, समादीयते येन विषयस्तत समादानम्-इन्द्रियं तस्य ( सर्वोपघातकारि ) देशोपघातकारि वा समादानक्रिया ॥ ईयोपथकर्मणो याऽति(हि ? )निमित्तभूता वध्यमानवेद्यमानस्य सेयोपथक्रिया । अत्र च काश्चित् साम्परायिककमेण आस्रवः, काश्चिच्च न ॥ कायक्रिया द्विविधाः, प्रदुष्टस्य मिथ्यादृष्टेरुद्यमो यः पराभिभवात्मको वाङ्मनसनिरपेक्षः सा तु परतः कायक्रिया, प्रमत्तसंयतस्यानेककर्तव्यतासु बहुप्रकारा दुष्प्रयोगकायक्रिया ॥ अधिक्रियते येनात्मा दुर्गतिप्रस्थान प्रति तदधिकरणं-परोपघातिकूटगलपाशादिद्रव्यजातं तद्विषयाधिकरणक्रिया । सा द्विधानिवर्तने संयोजने च । तत्र मूलोत्तरगुणभेदाद् द्विधा निवर्तने मूलगुणाधिकरणक्रिया पश्चानामौदारिकादिशरीराणां निर्वृत्तिः, उत्तरगुणनिर्वर्तना पाणिपादाद्यवयवानां, अथवा असि-शक्ति-तोमरादीनां मूलगुणनिर्वर्तना, उत्तरगुणनिर्वर्तना तेषामेव पानोज्ज्वलीकरणपरिचारादिका । संयोजनाधिकरणक्रिया तु विषगरहलांकुटधनुर्यन्त्रादीनाम् ॥ प्रादोषिकी द्विविधा-जीवाजीववैविध्यात् । जीवप्रादोषिकी तावत् पुत्रकलत्रादिस्वपरजनविषया । अजीवप्रादोषिकी तु क्रोधोत्पत्तिनिमित्तभूतकण्टकशर्करादिविषया ॥ परितापिका तु द्विविधापरितापप्रधाना स्वपरपरितापप्रधाना-स्वपरपरितापजननी। तत्र स्वदेहपरितापकारिणी पुत्रकलत्रादिवियोगदुःखभाराद्यतिपीडितस्यात्मनस्ताडनशिरस्स्फोटनादिलक्षणा । परपरितापकारिणी पुत्रशिष्यकलत्रादिताडनम् ॥ प्राणातिपातक्रियाऽपि द्विविधा-स्वपरव्यापादनभेदात् । अत्र स्वप्राणातिपातजननी गिरिशिखरप्रपातज्वलनप्रवेशजलप्रवेशास्त्रपाटनादिका । परप्राणातिपातजननी तु मोहलोभक्रोधाविष्टा प्राणव्यपरोपणलक्षणा क्रियते । अत्रापि विचिन्त्य पञ्चके साम्परायिककर्मण आस्रवो वक्तव्यः ॥ दर्शनक्रिया द्विधा-जीवाजीवविषयत्वात् । तत्र प्रमादिनो नृपनियोगप्रवेशस्कन्धावारसन्निवेशनटनतेकमल्लमेषवृषयुद्धादिष्वालोकनादरो य: सा जीवविषया दृशिक्रिया। देवकुलसभाप्रपोदकाशयत्रपुस्ताद्यालोकनलक्षणा रागाद्रेचेतसोज्जीवविषया दर्शनक्रियाः ॥ स्पशेनक्रिया द्विविधा-जीवाजीवभेदात् । तत्र जीवस्पर्शनक्रिया योषित्पुरुषनपुंसकाङ्गस्पर्शनलक्षणा रागद्वेषमोहभाजः । अजीवस्पर्शनक्रिया मृगरोमकुतवपदृशाटकनील्युपधानादिविषया ।। प्रत्ययक्रिया तु यदपूर्वस्य पापादानकारिणोऽधिकरणस्योत्प्रेक्ष्य स्वस्वबुद्धया निष्पादनम् ।। समन्तानुपातक्रिया स्त्रीपुरुषनपुंसकपशुसम्पातदेशे उपनीयवस्तुत्यागः। प्रमत्तसंयतानां वा भक्तपानादिकेऽनाच्छादितेऽवश्यत्याज्ये समन्तादनुपातो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org