SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ११ सूत्र ६ ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् र्येषामनृतादीनामात्मपरिणामानां त एवमादयो वक्ष्यमाणा हिंसादयः साम्परायिकस्य कर्मण आस्रवास्तथा भा०-चत्वारः क्रोधमानमायालोभाः अनन्तानुबन्ध्यादयो वक्ष्यन्ते (अ० ८, मू० १०)॥ टी-चत्वारः क्रोधादयः । अव्रतानन्तरं कषायगौरवप्रतिपादनार्थमाह-क्रोधादयोप्रीतिगर्वपरवञ्चनामूोलक्षणाः कषायाः,अनन्तः-संसारस्तमनुबन्नन्ति तच्छीलाश्चानन्तानुपन्धिनो वक्ष्यमाणलक्षणास्ते आदिर्येषां तेऽनन्तानुबन्ध्यादयः। आदिशब्दग्रहणादप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनग्रहणम् । अनन्तानुबन्धिनश्चत्वारः क्रोधादयः, अप्रत्याख्यानाश्चत्वारः क्रोधादयः, प्रत्याख्यानावरणाश्चत्वारः क्रोधादयः, तथा संज्वलनाश्चत्वार एव क्रोधादयः, इत्येवमेते षोडश कषाया वक्ष्यन्ते लक्षणतः । एते च साम्परायिकस्य कर्मण आस्रवाः, तथा तेषु कषायेषु सत्सु भा०-पञ्च प्रमत्तस्येन्द्रियाणि ॥ टी०-पञ्च प्रमत्तस्येन्द्रियाणि स्पर्शनादीनि स्पर्शादिषु विषयेषु कषायादिपरिणतियुजः साम्परायिकस्य कर्मण आस्रवा भवन्ति । तदनन्तरं भा०-पञ्चविंशतिः क्रियाः। तत्रेमे क्रियाप्रत्यया यथासङ्ख्यं प्रत्येतव्याः । तद्यथा-सम्यक्त्व-मिथ्यात्व-प्रयोग-समादाने-र्यापथाः कायाधिकरण-प्रदोषपरितापन-प्राणातिपाताः दर्शन-स्पर्शन-प्रत्यय-समन्तानुपाताऽ-नाभोगाः स्वहस्त-निसर्ग-विदारणा-नयना-नवकाङ्क्षा आरम्भ-परिग्रह-माया-मिथ्यादर्शनाsप्रत्याख्यानक्रिया इति ॥६॥ टी-पञ्चविंशतिः क्रिया इन्द्रियकषायावतैः इन्द्रियादयश्च आभिः सङ्कीर्णाः शुद्धाश्व परस्परव्यतिकीर्णाव्यतिकीर्णरूपा एकास्रवत्वं प्रतिपद्यन्ते । पञ्चविंशतिरेवात्मनः सकषायकर्मणः क्रियारूपाः परिणामाः, तत्र-तेषु साम्परायिककर्मास्रवेषु इमे ये वक्ष्यन्ते लक्षणतः, क्रिया एव प्रत्ययः-कारणं येषां साम्परायिककर्मास्रवाणां ते क्रियाप्रत्ययाः-क्रियाकारणकाः यथासङ्ख्यं-येन सङ्ख्याविशेषेण क्रियाः प्रसिद्धास्तदत्र यथासङ्ख्यमुच्यते, यथासङ्ख्यं या या सङ्ख्या क्रियाणां प्रत्येतव्या-विज्ञेयाः । तद्यथेत्यनेनोदाहरति तान् क्रियाविशेषान्सम्यक्त्वमिथ्यात्वेत्यादि । इमाः पञ्चविंशतिक्रियाः सकषायस्य कर्तुः साम्परायिकस्य कर्मण आस्रवा भवन्ति, यथासम्भवं व्याख्येयाः । तत्र सम्यक्त्वक्रिया सम्यक्त्वकारणम् । सम्य ___ क्त्वं च मोहशुद्धदलिकानुभवः, प्रायेण तत्प्रवृत्ता क्रिया सम्यक्त्वपञ्चविंशतः क्रियाणां क्रिया-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणजीवादिपदार्थविवेचनम् विषया श्रद्धा जिनसिद्धगुरूपाध्याययतिजनयोग्यपुष्पधूपप्रदीपचामरात पत्रनमस्करणवस्त्राभरणानपानशय्यादानाद्यनेकवैयावृत्याभिव्यङ्गया च सम्यक्त्वसद्भावसंवर्धनपट्वीसवेद्यबन्धहेतुर्देवादिजन्मप्रतिलम्भकारणम्।।अतो विपरीता मिथ्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy