________________
तत्त्वार्थाधिगमसूत्रम् . . [ अध्यायः ६ सूत्रम्--ईन्द्रियकषायाव्रतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः
पूर्वस्य भेदाः ॥६-६॥ टी०-इन्द्रियादीनां चतुर्णा कृतद्वन्द्वानां संहत्योत्तरभेदैनिर्देशः । पञ्च चत्वारः पञ्च पञ्चविंशतिः संख्या येषां ते पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः । पूर्वस्येति निर्देशसामर्थ्यात् साम्परायिकस्य कर्मणो य आस्रवस्तस्य भेदा भवन्तीति, एतदेव भाष्यकारो विशकलयति भाष्येण
भा०-पूर्वस्येति सूत्रक्रमप्रामाण्यात् साम्परायिकस्याह । साम्परायिकस्यासवभेदाः पञ्च चत्वारः पञ्च पञ्चविंशतिरिति भवन्ति ॥
टी०-पूर्वस्येति सूत्रक्रमप्रामाण्यात् साम्परायिकस्याहेत्यादि भाष्यम् । पूर्व-प्रथमं कर्म । किंकृतं प्राथम्यमित्याह-सूत्रक्रमप्रामाण्यादिति । सूत्रे परिपाटीक्रमस्तस्याप्सोक्तत्वात् प्रामाण्यम् । आचार्येण हि सूत्रे साम्परायिककर्मास्रव एव प्रथममुपन्यस्तोऽतस्तमेव विवृणोति-साम्परायिकस्याह । सम्परायकारणस्य कर्मण आस्रव इति सूत्रकारः प्रागेवमुवाच अतः साम्परायिकस्य कर्मणो य आस्रवस्तस्य
भेदाः-प्रकाराः संख्यायन्ते यथाक्रमम् । पञ्चेन्द्रियाणि प्राग्व्यासाम्परायिकासवस्य ख्यातखरूपाण्यात्मनो लिङ्गादिभूतानि । मूलभेदतश्चत्वारः कषायाः __४९ भेदाः क्रोधादयो वक्ष्यमाणोत्तरषोडशभेदाः । पञ्चावतानि हिंसादीनि लक्ष
णतो वक्ष्यमाणानि । क्रियाः पञ्चविंशतिरिहैव सूत्रे व्याख्यास्यन्ते । एवमेते एकान्नचत्वारिंशदात्मनः परिणतिविशेषाः साम्परायिकस्य कर्मण आस्रवभेदा भवन्ति । तत्रेन्द्रियकषायानुल्लङ्घयात्रतान्येव व्याचष्टे भाष्यकारः। किं पुनरत्र प्रयोजनमिति ? उच्यते-अयमभिप्रायो भाष्यकारस्य-हिंसादीन्यव्रतानि सकलास्रवजालमूलानि तत्प्रवृत्तावात्रवेष्वेव प्रवृत्तिस्तनिवृत्तौ च सर्वास्रवेभ्यो निवृत्तिरित्यस्यार्थस्य ज्ञापनार्थ सूत्रोक्तक्रममतिक्रम्याव्रतानि व्याचष्टे भाष्यकारः । सूत्रबन्धशोभाहेतोरिन्द्रियादिसनिवेशः॥
भा०-पञ्च हिंसानृतस्तेयाब्रह्मपरिग्रहाः । प्रमत्तयोगात् प्राणव्यपरोपणं हिंसेत्येवमादयो वक्ष्यन्ते (अ० ७, सू०८-१२) ॥
टी-पश्चैव न न्यूनातिरिक्तानि व्रतानि विरतिलक्षणानि वक्ष्यन्ते । तद्विपरीतानि अवतानि-प्राणातिपातादिप्रवृत्तिखभावानि, हिंसादीनि कृतद्वन्द्वनिर्दिष्टानि सप्तमेऽध्याये लक्षणतोऽभिधास्यन्ते । तच्च लक्षणमुपलक्षयति-प्रमत्तयोगात् प्राणव्यपरोपणं हिंसेति । प्रमत्तस्य-कषायादिपरिणतिभाजो योगस्तद्धेतुकं यत् प्राणव्यपरोपणं सा हिंसा । इतिशब्दोऽवधारणे । एतावदेव लक्षणं हिंसायाः परिपूर्णप्रपञ्चेन व्याख्यास्यते, एवंलक्षणा हिंसा आदि
१ 'अव्रतकषायेन्द्रियक्रियाः' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org