SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सूत्रं ५ स्वोपज्ञभाष्य टीकालङ्कृतम् "ने य तस्स तनिमित्तो बंधो सुहुमोवि देसितो समए ।"-ओघ० गा० ७४९ "सुद्धस्स उ संपत्ती अफला वुत्ता जिणवरेहिं ।" तदेवं सकषायाकषाययोर्योगस्य यथाक्रमं साम्परायिकर्यापथयोः कर्मणोरात्रवो भवति । कर्मग्रहणमास्रवग्रहणं चानुवर्तते । एनमेवार्थ भाष्येण स्पष्टयति भा०–स एष त्रिविधोऽपि योगः सकषायाकषाययोः साम्पआस्रवस्य द्वैविध्यम् रायिकेयोपथयोरात्रवो भवति, यथासङ्ख्यं यथासम्भवं च सकषायस्य योगः साम्परायिकस्य । अकषायस्योपथस्यैवैकसमयस्थितेः ॥५॥ टी०–स एष त्रिविधोऽपि योग इत्यादि । प्रकृतोपयोगाभिसम्बन्धार्थस्तच्छब्दः, एष इत्युपदर्शनार्थः । स एष योगः शुभाशुभभेदस्त्रिविधोऽपि-मनोवाकायलक्षणः । अपिशब्दाद् व्यस्तः समस्तो वा सकषायस्य कर्तुःसाम्परायिकस्य-संसारपरिभ्रान्तिकारणस्य कर्मण आस्त्रवो भवति । यथोक्तम्-" पंढमे समए बद्धपुडा बितिए समए वेदिता ततिए समए निजिण्णा सेआले अकम्मं वावि भवति" (इति) पारमार्षवचनात् त्रिसमयावस्थान एव वेदितव्यः । सकषायाकषाययोर्द्वयोरपि साम्परायिककर्मबन्धाशङ्कायामीर्यापथकर्मबन्धारेकायां च द्वयोरपीदमाह-यथासङ्ख्यमिति । यथाक्रम सकषायस्य साम्परायिककमोस्रवः । यथासम्भवमिति । यस्य यावान् योगः सम्भवत्येकेन्द्रियाणां तावत्काययोगः द्वित्रिचतुरिन्द्रियासंज्ञिपश्चेन्द्रियाणां कायवाग्योगौ संज्ञिपञ्चेन्द्रियाणां मनोवाकाययोगः अकषायस्य संज्वलनवर्तिनः उपशान्तकषायक्षीणमोहयोश्च मनोवाकाययोगाः केवलिनो वाकाययोगावित्येवं यथासम्भवग्रहणं समर्थितं भवति । योगो व्याख्येय इत्यनुकर्षणार्थश्चशब्दः । एतदेव यथासंख्यक दर्शयति भाष्येण-सकषायस्येत्यादि । सकषायस्य योगः साम्परायिकस्य कमेण आस्रवः, अकषायस्येयोपथस्यैवास्त्रवो न साम्परायिकस्यापीति, एकसमयस्थितेरिति एकसिन् समये स्थितिः-अवस्थानं यस्य कर्मण इति । भाषितपुंस्कत्वादेवं निर्देशः । वेद्यमानकर्मसमयो मध्यमः स एव स्थितिः कालः । आयो बन्धसमयस्तृतीयः परिशाटसमय इति ॥५॥ ____ साम्परायिकश्चर्यापथश्च द्विविधोऽभिहित आस्रवस्तत्र साम्परायिककर्मास्रवभेदाः कियन्त इत्युच्यते १-२ छाया न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देवितः समये। शुद्धस्य तु सम्पत्तिरफलोफा जिनवरैः । ३. प्रथमे समये बद्धस्पृष्टा द्वितीये समये वेदना तृतीये समये निर्जरणं, एध्यत्कालेऽकर्म वाऽपि भवति । ४ 'मार्षाद वचनाद' इति क-पाठ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy