SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तत्वार्यांधिगमसूत्रम् [ अध्यायः ६ कीर्तिनिर्माणतीर्थकर नामानि । शेषा व्यशीतिः प्रकृतीनां पापमुच्यते । पञ्च ज्ञानावरणानि, नव . दर्शनावरणानि, असद्वेद्यं, षड्विंशतिधा मोहनीयं सम्यक्त्वसम्यग्मिथ्याद्वधशीतिः पापप्रकृतयः " त्वप्रकृतिद्वयवर्जितम् । यस्मादनयोर्बन्धो नास्ति । मिथ्यात्वमेव ह्येकं बद्धं तथा परिणमते, नरकायुः नीचैर्गोत्रं पञ्चविधमन्तरायं, नरकगति नरकगत्यानुपूर्वी, चतस्रो जातयः संहननसंस्थानानि दश अप्रशस्तवर्णादिचतुष्कं उपघातनाम अप्रशस्त विहायोगतिस्थावरसूक्ष्मापर्याप्तकसाधारण स्थिराशुभदुर्भगदुःखरानादेयायशः कीर्तिनामानि । तदेवं शुभाशुभौ योग पुण्यापुण्ययोरास्रवौ यथाक्रममेव भवतः, न व्यतिरेकेणेति निरूपितम् ॥ ४ ॥ आस्रवाधिकारमपेक्षमाणः प्रश्नयति - किमयमास्रवः संसारिणां समानफलारम्भ हेतुर्भवत्याहोस्विदन्यस्यान्यादृशोऽन्यस्य वाऽन्यथेति । उच्यते - प्राणिनामानन्त्येऽपि उभयथाऽऽत्मभेदसामर्थ्याद् भवत्यास्रवः ॥ व्युत्पत्तिः सूत्रम - सकषायाकषाययोः साम्परायिकेर्यापथयोः ॥ ६-५ ॥ - कषः - कर्म भवेत् तस्य आयो - लाभः - प्राप्तिः कषायः क्रोधादिभेदः कर्महेतुभवतुर्वा, सह कषायेण वर्तत इति सकषायः, अविद्यमानः कषायो - सूत्रगतशब्दानां कषायः । इतरेतरयोगद्वन्द्वात् षष्ठीद्विवचनमनित्यत्वान्नियमस्य, आहिताग्न्यादित्वाद् वा कामतः पूर्वनिपातः, बहुवक्तव्यत्वाद् वाऽभ्यर्हितत्वादुभयोरपि पूर्वनिपातः । सम्परैत्यस्मिन्नात्मेति सम्परायः - चातुर्गतिकः संसारः । समित्ययं समन्ताद्भावे सङ्कीर्णादिवत् परा भृशार्थे सम्परायते च स सम्परायः प्रयोजनमस्य कर्मणः साम्परायिकं --संसारपरिभ्रमणहेतुः । ईरणमिर्या गतिरागमानुसारिणी । विहितप्रयोजने सति पुरस्ताद् युगमात्रदृष्टिः स्थावरजङ्गमाभिभूतानि परिवर्जयन्नप्रमत्तः शनैर्यायात् तपस्वीति सैवंविधा गतिः पन्था - मार्गः प्रवेशो यस्य कर्मणस्तदीर्यापथं, एवंविधगतिः उपादानं कर्मकषायस्य, गतिरत्रोपलक्षणमात्रं, योगमात्रप्रत्ययत्वात्, गच्छतस्तिष्ठतो वा त्रिसमयस्थितिको भवत्यकषायस्य बन्धः | अकषायो वीतरागः सरागश्च । तत्र वीतरागस्त्रिविधः – उपशान्तमोह एकः, क्षीणमोहकेवलिनौ च कार्त्स्न्येनोन्मूलितकर्मकदम्बकौ, सरागः पुनः संज्वलनकषायवानपि अविद्यमान उदयोऽकषाय एव मन्दानुभावत्वमनुदराकन्यानिर्देशबद्, अतश्चोपपन्नमिदं - टी० 10 "उच्चालियम्मि पाए, इरियासमियरस संकमढाए । वावज्जेज्ज कुलिंगी, मरेज जोगमासज्ज ॥ १ ॥" - ओघनियुक्तौ गा० ७४७ १' वेत्वद रा० ' इति ग-पाठः । २ छाया Jain Education International उच्चालिते पादे ईर्यासमितस्य संक्रमार्थम् । व्यापद्येत कुलिङ्गी म्रियते तं योगमासाद्य ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy